SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य नवमः चरित्रम् पल्लव: कार्यं चेद् भवेत् तद् ममैव झाप्यम्, यद् घटिकासाध्यं तत् क्षणेन करिष्यामि । मम गृहं स्वगृहमिव गण्य, न किमप्यन्तरंगण्यम् । तवेच्छाविलासे यः प्रत्यूहस्तन्मम महदुःखम्, अतो निःशङ्कविलासः कर्तव्यः' इत्युक्त्वा प्रत्ययोत्पादनाय शाले: पृष्ठस्थापनं कृतम्, यतो राजा यस्योपरि महती कृपा भवति तस्य पृष्ठस्थापनं करोतीति राजनीतिः । अथ राज्ञः कर्कशकरस्पर्शाद गिरेनिझरणवत् प्रस्वेदबिन्दवः स्रोतं लग्नाः, शरीरं च मुष्ठिगतशतपत्रपुष्पवद्म्लानत्वं प्राप्तम्। तद्दृष्ट्वा भद्रया भूपतये विज्ञप्तम्-'स्वामिन् ! अयं पैत्तलिकदेवोऽस्ति, स्वामिप्रताग्नितापं धर्तुं न शक्नोति, अतोऽस्याज्ञा दीयतां यथा विलासभवने याति । तदा राज्ञा सहर्ष बहुमानपूर्वकमाज्ञा दत्ता--'वत्स! सुखेन उपरितनावासम् अलङ्कुरु'।ततो भूपतेरादेशं प्राप्य शालिभद्रस्तत्क्षणं मोहेन मुक्तो भव्यात्मा लोकान्तमिव सप्तमं सौधं गतः । गत्वा च वैराग्यरङ्गपूरितहृदयः शय्यायां स्थितः । अथ भद्रया अञ्जलियोजनपूर्वकं सबहुमानं सपरिकरो राजा भोजनाय निमन्त्रितः । राज्ञापि अत्यादर-भक्तिं दृष्ट्वा मानितम् । ततो यानि शतशः सहस्रशो लक्षशः संस्कारैः परिकर्मितानि यानि च शत-सहस्रलक्षद्रव्यव्ययैर्निर्मापितानि, तैः शतपाक-सहस्रपाक-लक्षपाकतैलैर्मज्जनशालायां-निपुणशिल्पिभि रभ्यङ्गः कारितः । ततः सुवासितोष्णतीर्थजलै राजस्नानविधिना स्नप्यमानस्य भूपतेः कराद्रुष्टकान्तेव मणिमुद्रिका कूपान्तः पतिता | अथ स्नानं कृत्वा शुद्धमाञ्जिष्ठवरेण अङ्गलुञ्छनं कृत्वा प्रथमं बावनाचन्दनरसेन गात्रमनुलिप्तम् | पश्यात् श्रृङ्गारकरणावसरे आभूषणपरिधानं कुर्वता नृपेण मुद्रिका न दृष्टा, तदा तच्छुद्ध्यर्थम् || इतस्ततो व्यलोकयत्, पुनः पुनर्हस्ताइगुलिं पश्यति । चिन्तयति च-'मम राज्यसारं मुद्रारत्नं गतम्ट, किं क्रियते ?, कस्याऽये कथ्यते ?, परगृहे चागत्य आलदानं न युक्तम्, एवं यावता चिन्तयति तावता दूरस्थया in Education Interneta For Personal & Private Use Only www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy