________________
श्रीधन्य चरित्रम्
नवमः पल्लवः
॥३६६॥
भवेत्" । एवं विचार्य मातुर्वचोऽलङ्घनीयमिति कुलजानां रीतिमनुसृत्य, मातृभक्तिहानिर्मा भूयाद् इति आसनादुत्थाय मात्रा सह आवासादुत्तरितुं लग्नः । तदा ऊर्ध्वसुखेन श्रेणिका-ऽभयादयोद्रष्टुं प्रवृत्ताः | 'विकल्पयन्ति च - 'किमयं वासवो दोगुन्दुकदेवो वा ?, मूर्तिमान् पुण्यप्राम्भारो वा ?' | अथ स देहधुत्या गृहमुज्ज्वलयन्, चलत्कुण्डलाभरणाभ्यां शतश: क्षणद्युतीनां तेजांसि विस्तारयन्, वाग्-नेत्र-मनसां चापल्यं वारयन् राज्ञः समीपमागत्य विनयपूर्वकं लीलया राजानं प्रणनामः, यत उत्तमानाम् अयमेव क्रमः | कुमारागमनमात्रेण राज्ञाऽत्यादरपूर्वकं परमप्रीत्या हस्तं संगृह्य कुमार: स्वान्तिके स्थापितः । शालिभद्रस्य रूपा-ऽऽभरण-सुकुमारता-मधुरवाग्-हस्ताभिनयाद्युत्कृष्टपुण्योदयविभ्रमे पतिताः सर्वेऽपि सभ्याश्वित्रस्था इव निश्चेष्टा जाताः, परस्परं वदितुमपि न शक्नुवन्ति, शिरोधूननमात्रामेव चेष्टां कुर्वन्त: स्थिताः । राजाऽपि तं निरीक्ष्य कियती वेलां स्तम्भितो भूत्वा शिष्टाचारपालनार्थं साहसं धृत्वा हृदयं दृढीकृत्य प्रीत्याशालये सुखक्षेमोदन्तं पृष्टवान्-'वत्स! तव लीलाविलासा अविच्छिन्ना सुखरुपा यथेच्छं निष्प्रत्यूहा वर्तन्ते ?' कुमारेणोक्तम्-श्रीमद्देवगुरूणां प्रसत्त्या पूज्यापादानां कृपया च कथं न भवेयुः?' इति चन्दनशीतलं मधुरवाक्यं श्रुत्वा सोल्लासं राजा प्राह, “वत्स! त्वया न काऽप्यस्मच्छङ्का विधेया, यथेच्छंस्वमनोऽनुकूलो विलासोऽनुसर्तव्यः। यतस्त्वं तु अस्माकं प्राणाधिकवल्लभोऽसि, नेत्रवद् रक्षणीयोऽसि,मम राज्य- नगरै-श्वर्याणां हार्दं त्वमेवाऽसि; रङ्ककरमतरत्नवत् प्रतिक्षणं स्मरणीयोऽसि; अतो यथेच्छं विलासः कर्तव्यः, न काऽप्यतिर्विधेया । यत् किमपि १. विचारयन्ति प्र. । २. 'बहुमान पूर्वकं' इत्याधिकः पाठः प्र. ।
॥३६६॥
in Education
For Personal & Private Use Only
www.jainelibrary.org