SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् ॥ ३६५॥ Jain Education natio कीदृशम् वक्ति ? ' एवं विमृशन्ति जननी हृदि बाढं जहर्ष । व्यमृशच्च- 'एवम् एकान्तेन अतिभद्रकत्वं सरलत्वं च न शोभामावहति, योऽवरोचितं जानाति सोऽतिनिपुणः, अत इमं किञ्चिद् नीतिवचः श्रावयित्वा जागरितं करोमि ' । इति ध्यात्वा प्राह-" वत्स ! श्रेणिकः क्रयाणकं न, किन्तु तव स्वामी समस्तदेशाऽधिपतिः । अस्मत्सदृशा अनेके तस्य सेवामहर्निशं कुर्वन्ति । अनेकमाण्डलिकभूप-सामन्त श्रेष्ठयादयोऽष्टौ प्रहरान् जागरितदशया | तस्यैवाज्ञायां स्थिताः सेवन्ते । 'किमयं वदिष्यति ?' । इति शुश्रूषोत्सुका हस्तयोजनपूर्वकं स्थिता दृश्यन्ते एते | सर्वेऽपि जनाः । त्वमपि तस्य शुभदृष्ट्या स्वेप्सितं सुखविलासं कुर्वन्नासि । चेत्तस्य दृष्टेर्विनिमयो भवेत् तदा कोऽप्यात्मनश्छायासमीपेऽपि न तिष्ठेत् । तस्मिन् तुष्टे सति सर्वेऽपि तुष्टा ज्ञेयाः रुष्टे च तस्मिन् कोऽप्यात्मीयोऽपि वार्तामपि श्रोतुं नोत्सहते । अतः स्वयम् अधस्तनमागत्य सविनयं प्रणिपत्य तं प्रसत्तिपात्रं कुरु । तस्यागमनेन तव गृहशोभा वृद्धिशोभा वृद्धिमाप्ताऽस्ति, पुनस्त्वमागत्य विनयादिगुणदर्शनपूर्वकं महतीमुन्नतिं पाणौ कुरुष्व । स तु त्वद्दर्शनसमुत्सुकोऽस्ति, तवागमनेनाऽस्य महती चित्तप्रसत्तिर्भविष्यति, जगदनुकूलं च बहुमानं दास्यति, अतः शीघ्रमागच्छ" । इत्येवं मातुर्वचः श्रुत्वा मात्रधिकं हृदि दूनो विचिन्तयितुं लग्न: “हा ! ममापि स्वाम्यस्ति । अहो ! एतावन्ति दिनानि तु अर्हन्तं स्वामिभावेन जानामि ; तं विना नाऽन्यं कमपि स्वामित्वेन जानामि, यस्याभिधानं प्रातरुत्थाय गृह्यते, भक्तया च स्तुतिपूर्वकं यः प्रणम्यते । चेद् मात्रोक्तो माशस्तुल्यकर-क्रमो ममापि स्वामी तदा मत्तोऽपि तस्य पुण्यं महत्तरं, मत्पुण्यं तु दीनतरम् । एवं पराधीनत्वे किं सुखम् ?, संसारे पराधीनत्वाद् अन्यदुःखमधिकं नास्ति । मया तु पूर्वजन्मनि स्तोकतरमेव पुण्यमुपार्जितं, तेन परानुवृत्त्या नमनादिकं कर्तव्यतया आपतितम् । ततोऽधुना मयेदृशं कर्तव्यं येन केनाप्यंशेन पराधीनत्वं न For Personal & Private Use Only नवमः पल्लव: || ३६५॥ www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy