SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् नवमः पल्लवः मार्गभ्रान्तिकरं, स्थाने स्थाने बावनाचन्दना-5गुरु-मृगमदा-ऽम्बर-तुरुष्कादीनां धूपोद्मवासनया परिपूरितघ्राणेन्द्रियं दृष्ट्वा सर्वेऽपि पुनः पुनर्मस्तकंधूनयन्ति। तदा मन्दारकुसुमयथितमालाऽवलम्बितजालिकाः स्पृष्ट्वा वायुरत्यामोदकरो मन्दं मन्दमागच्छन्ति । ऊर्ध्वं चन्द्रोदये रत्नवल्लिवलये रत्नमयपत्र-पुष्पाणि को वर्णयितुं शक्नुयात् ? तत्र झुम्बकेषु लहलहायमानमणि-मुक्ताफलादीनां विचित्रवर्णादीन् दृष्ट्वा चक्षुरेव न निवर्तते । स्थाने स्थाने नवनवरचनाऽनेकसङ्घययाऽस्ति, तत्र किं किं पश्येयुः ? । यत्र यः पश्यति तत्र तस्य दृष्टि: स्थिरीभूय लगति। ततो राजादयः स्वयमेव प्राहुः-'वयं तु अत्रैव स्थास्यामः, यतः स्थिरीभूय विलोकयेम"। ततो भद्रया राज्ञ आशयं ज्ञात्वा, रत्नमयं भव्यसिंहासनमानाय्य, उन्नते स्थाने स्थापयित्वा, दिव्यमसूरकोच्छीर्षकादिना संस्कार्य विज्ञप्तम्-देव ! अलंक्रियताम् इदमासनम्' । राजा तत्सिंहासनं दृष्ट्वा 'किमिदम् ऐन्द्र चान्द्रं वा ?, इति विमृशन् सिंहासने स्थित्वा प्राह-'भाग्यवति! त लीलापतिः पुत्रः कुत्र ? अत्र समानय, यथाऽहं तस्य पुण्यनिधेर्दर्शनं करोमि' । ततो भद्रया राजादेशं प्राप्य सप्तम्यां भूमौ गत्वा शालिभद्र आलापित:-वत्स ! अधस्तनभूमिं शीघ्रं समागच्छ, स्वावासे आगतं श्रेणिकं विद्धि' । एवं मातृवचः श्रुत्वा शालिः प्राह-मातः । अत्र मे कथनीयं किम् ?, यथार्हधनं दत्त्वा श्रेणिकं पण्यं गृहाण, त्वत्तः किमहम् अतिनिपुणः ?' | मात्रोक्तम्-'वत्स! न तु पृथिव्याम् अतिमहाघम्, अमूल्यमस्ति, भाग्येनाऽत्राप्यते' शालिः प्राह-‘एवं चेत्तर्हि मुखमार्गितं धनं दत्त्वा गृहाण- यथा परहस्ते न याति' । एवं पुत्रस्य भुवनाद्भुताम् ऐश्वर्यलीलामालोक्य 'अहो ! अयं लीलापतिः पुत्रः १. अतः परं किं भविष्यति' इत्यधिकः पाठः प्र. | स्थितः, ततो राजा, इति प्र. । २. स्वयमेव इत्यधिकः पाठः प्र. । ॥३६४॥ Main Education make! For Personal & Private Use Only |ww.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy