________________
श्रीधन्य
चरित्रम्
नवमः पल्लव:
॥३६३॥
"अहो ! पुण्यप्रकृतेर्भेदः ईदृशं रमणीयतरं मम शयनस्थानमपि नास्ति । शुद्धाशय| बहुमानगर्भितदानादिधर्मसेवनफलम् ईदृशम् । यदुक्तं जिनागमे -'असङ्ख्याताऽध्वसायनिष्पन्नमेकं प्रकृतिस्थानं, तदपि असंख्यातभेदभिन्नं प्रोक्तम्, तत्रापि रसभेदा अनन्ताः' । एवं विचित्राः पुण्य-पापयोर्भेदाः श्रीमज्जिनैरुक्ताः, अतस्तद्वचनमेव सत्यम्" । एवं शुद्धोपयोगो भूत्वा सोपानमार्गेण उपरितनभूमौ सपरिच्छदो नृपतिश्यटितः । सा च विविधरत्नजटितगवाक्ष-मुक्ताफलग्रथिजालिकादियुता, स्थाने स्थाने सुगन्धिधूपादिना वासिता, विविधातोद्य-हेतिगणैश्च सर्वतो दर्शनीयाऽस्ति । तत्रापि भद्रयाऽऽगत्य विज्ञप्तम्-'पूज्यपादैरुपरिभूमौ कृपा कर्तव्याः, इदं तु दासी-दासा-ऽसिधर-कुन्तधरा-5ऽतोद्यवादकानां स्थानं स्वामियोग्यं नास्ति' | पुना राजाऽतिचमत्कृतचित्तो विचारयति-दृश्यतां पुण्यविलासः, मम स्थानतोऽप्यधिकानि दासादीनां स्थानानि, एष सर्वोऽत्यादरपूर्वकदानादीनां चमत्कार:' । एवं विचारयन् तृतीयभूमौ गतः । तच्च स्थानं विविधदेशोत्पन्नचीनांशुकप्रमुखाणां चन्द्रोदयैः सन्ध्याभ्रवद् रमणीयतरं, स्फाटिकादिविविधभासुरप्रस्तरै रचितविचित्रभूमितलम् अतीव शोभनं दृष्ट्वा राजा तत्र स्थातुमना अभूत् । तज्ज्ञात्वा पुनर्भद्रा प्राह - 'स्वामिन् ! चतुर्थभूमिं पवित्रयतु, न हि इयं भूमिः स्वामिनः स्थातुं योग्या । इदं तु वाणिज्याऽधिकारिणां लेखकानाम् उग्राहकाणां च सेवकानां स्थानम्' । तच्छुत्वा राजा विचिन्तयति-'अहो ! पुण्यबलम्; यद् अहं राजा, अयं तु मदीया प्रजा, परं पुण्ययोरन्तरं महत् । अत्र विस्मयो न कर्तव्यः । पूर्वकृतभावाधिकदानादीनां फलं श्रीमद्भिजिनैरुक्तं तत् सत्यमेव' | इति विचिन्तयन् चतुर्थभूमौ चटितः । तच्च स्थानं रत्नखचितरमणीयस्तम्भश्रेणिविराजितम्, आवासभित्तिजटितरत्नमुकुराणां परस्परं प्रतिबिम्बनाद्
||३६३॥
in Education
For Personal & Private Use Only
www.jainelibrary.org