________________
श्रीधन्य
नवमः
चरित्रम्
पल्लव:
॥३६॥
सन्देशहारकैः पुरुषैरुक्तम्-'स्वामिनो गृहनिमन्त्रणहेतोर्भक्त्या भद्राकारितम् । अत्र तु किमप्याश्वर्यं नास्ति, अग्रे तु अनिर्वचनीयां रचनाऽस्ति, तां तु यः पश्यति स एव जानाति, परं मुखेन यथार्थं वक्तुं न शक्यते' । राजादयस्तच्छुत्वा विस्मयं प्राप्ता वदन्ति-'एतावता स्तोककालेन कः कर्तुं शक्नोति?, अतो देवकृत्यमेवेदम्'। मार्गे यथा यथाऽये यान्ति तथा तथा अभिनवाम् अदृष्टपूर्वाम् अनिर्वचनीयां रचनां पश्यन्ति । क्षणे क्षणे सैन्यजना: पुरजनाश्य अत्यद्भुतदर्शनकौतुकाविष्टचित्ता आश्चर्यैकलीनाः स्तम्भिता इवाऽये गन्तुं न शक्नुवन्ति। यदि कोऽप्यागत्य प्रेरयति-'चलत, अग्रतोऽपि बहुरमणीयमस्ति' तदाऽग्रे चलन्ति । पुनरन्यत्र गत्वा कामप्यन्यरचना दृष्ट्वातिचमत्कृतचिता अनिमेषाः पश्यन्तो मनुष्या देवा इव बभूवुः । राजाऽपि हस्तिस्कन्धाधिरूढ इतस्ततो यत्र यत्र पश्यन्ति तत्र तत्र निरुपमाम् अश्रुतपूर्वां रचनां पश्यन् चित्ते महाश्वर्यं वहन् चलति । परम् एकतो यदा पश्यति तदाऽपरतस्तु कदृष्टं तिष्ठति तदा च सेवकः प्रेरयति-'महाराज ! इतोऽवधार्यताम्, कीम् दर्शनीयमस्ति?' यावच्च ताजा वक्रमुखेन पश्यति तावता सेवको वक्ति-'देव एतद् अग्रगतं कौतुकं पश्यतु'। तदा पुना राजा बलेन दृष्टिं सरलां कृत्वाऽग्रतः । पश्यति । एवं क्षणे क्षणे स्फारोदारां गोभद्रनिर्मितां शोभां पश्यन् मुहुर्मुहुराश्वर्यनिमग्न उत्फुल्लोचन इतस्ततः पश्यन् विभ्रमे पतितः । 'कया रीत्या इदं निष्पादितं भविष्यति?' एवं पदे पदे शङ्कमान: पुनरयेऽभिनवाश्वर्यं पश्यति तदा ततोऽप्यधिकत बुद्ध्या विचारयति, परं हार्द न प्राप्नोति। एवं लीलावैभवं दृष्ट्वा दृष्ट्वा चिन्तयति-"किमिदं सत्यं वा स्वप्नं वा इन्द्रजालम् ? । एतानि आश्चर्यकृद्वस्तूनि केन निर्मितानि ?, कया रीत्या ?, केन द्रव्येण ? | निराश्रयाणि कथं स्थितानि ? | अहो | पुद्गलतावैचित्र्यम् ! । विना जिनमतं कोऽस्य हार्दै ज्ञाताऽस्ति?, अतो जिनवचनं सत्यम्, यत आगमेऽप्युक्तम्
॥३६१॥
For Personal & Private Use Only
waww.pinelibrary.org