________________
श्रीधन्य
चरित्रम्
॥ ३६० ॥
Jain Education Intem
| राज्ञाऽभयसम्मुखं दृष्टिः कृता । तदाऽऽभयेनोक्तम्- 'प्रजापालनतत्पराणां भवादृशानां तस्य गृहे गमनं युक्तमेव, न कापि वचनीयता । भवद्गमनेऽस्य पूर्णमनोरथोऽनिर्वचनीयानन्दश्च भविष्यति, लोके च प्रजावात्सल्यजन्मकीर्तिप्रसरो भविष्यति, परन्तु भवतां यथा रुचिः' । तत्समये धन्येनाऽपि अभयवचनं सत्यापितम् - 'महाराज ! मन्त्रिराट् शोभनं वक्ति, भवतां तत्र गमने प्रजावात्सल्यकरणेन कीर्तिः प्रवत्र्त्स्यति' । ततो राजा भद्रां प्रति प्राह- 'हे भद्रे ! त्वं सुखेन गृहं याहि, वयमागच्छामः' । इति राज्ञो वचः श्रुत्वा सहर्षं सुवर्णरत्न राज्ञः शिरसि न्युछनानि कृत्वा पुनः सुखासने स्थित्वा गृहमागता । स्वप्रधानपुरुषान् आहूयाज्ञा दत्ता यद्“आत्मीयगृहाद् राजद्वारं यावत् सर्वं मार्गं कचवरशोधन-सुगन्धिजलाच्छोटन-विचित्रपुष्पविकरणादिना दर्शनीयं कुरुत, त्रिपथ-चतुष्पथान् महामण्डप ध्वज पताका-तोरणादिभिरतिभणीयान् रचयत, मार्गस्थां | हट्टश्रेणिं विविधदेशोत्पन्नैः स्वर्णसूत्रपरिकर्मितवस्त्रैराच्छाद्य आश्चर्यकारिकां कुरुत, स्थाने स्थाने कृष्णागुरुमृगमदाऽम्बरादिना धूपघटीं कृत्वा समस्तमपि मार्ग सुगन्धेन वासितं कुरुत, तथा स्थाने स्थाने पुष्पमालालम्बितान् हट्टान् कुरुत" । एवं भद्रादेशं प्राप्य ते तथा कर्तुं प्रवृत्तास्तावता पुत्रमोहमोहितेन सदा दत्तावधानेन गोभद्रसुरेण स्वशक्त्या भूस्थं राजगृहं स्वर्गोपमं कृतम्, यत् पश्यतां जनानां समग्रैर्दिवसैर्दृष्टिस्तृप्तिं नाप्नुयात् । ततो राजा अभयादिप्रधानपुरुषै राजमान्यसामन्तादिभि महत्या सेनया च परिकरितो | गीताऽऽतोद्यवादन - बन्दिबिरुदपठनादिमहाडम्बरयुतो राजद्वारान्निर्गतोऽग्रे पश्यति तावता नगरशोभां दृष्ट्वाऽतिचमत्कृतः ससम्भ्रमं पार्श्वस्थान् प्रष्टुं लग्न: - 'अहो ! ईदृशम् अतिरमणीयतरं पुरं केन कृतम् ?' । ततः
For Personal & Private Use Only
नवमः
पल्लवः
॥ ३६० ॥
ainelibrary.org