SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् ॥ ३५९ ॥ Jain Education I पुत्रस्य सौख्यमस्ति ?' | भद्रा प्राह - 'स्वामिनः कृपया सौख्यं लीलापतित्वं च भवत्येव । चेत् स्वामिनः शुभदृष्टिप्रसरी यस्योपरि जातस्तं को गअयितुं समर्थः ? | पुनर्यस्योपरि पूर्णकृपादृष्टिर्जाता तस्यैहिकसुखविलासकरणे किमाश्चर्यम्, ?, कस्तस्य विघ्नकृद् भवति ? । पुना राजा प्राह- भद्रे ! मया निमन्त्रितोऽपि तव लीलापतिः सुतः कथं नागतः ? भद्राः प्राह- 'स्वामिन् ! आजन्मतोऽद्य यावद् भवतां (ता) पूर्णकृपया लीलापतिः कृतः । लीलाकरणमात्रमेव वेत्ति, नान्यत् । तस्य स्वरूपहार्दं बुद्धिनिधेरभयमन्त्रिराजो (जस्या) ग्रे निवेदितमस्तिः अतः स्वामिनः कृपा तु अस्त्येव, पुनर्विशेषतः कृपामबधार्य सेवकस्य मन्दिरं पवित्रयतु । यत्र स्वामिनां पूर्णकृपा भवति तत्र किमपि विचारणीयं न भवत्येव, यथा श्रीमद्रामचन्द्रश्चर्मकारपुत्री मनोरथपूर्त्यर्थम् अनाहूतोऽपि स्वयमेव तत्र गत्वा, तस्याः स्वसुर्गृहं यावत् स्वयं सह गत्वा, तत्र स्थापयित्वा आगतः । एवमनेकधा प्रजाया लालन-पालनं कृतम् । ये भवादृशा महान्तो भवन्ति ते परमनोरथपूरणं विना नान्यत् किमपि विचारयन्ति । अस्मादृशानां सेवकपरमाणुमात्राणां मनोरथपूरणे भवादृशानां महती गुरुतावृद्धिर्भवति, न काऽपि क्षति: 'अहो ! अस्य कृपालुत्वम्, अहो ! अस्य सरलत्वम्, अहो अस्य प्रजालालनपालनम्' एवम् अनेकयुगं यावत् कीर्तिः स्थिरा भवति । अतः कृपां कृत्वा मम विज्ञप्तिमवधार्य मन्दिरं पावनं | कर्तव्यं स्वचरणन्यासेन यथासुखम् । भवतां गृहागमनेन लीलापतेर्भवतः सेवकस्य यथार्थफलप्राप्तिर्भविष्यतिः तस्य तु अत्रागमने सहस्रकोशपथकरणश्रमो भविष्यति । अतः परं तु भवदिच्छा प्रमाण् । भवदीयाज्ञां को न मन्यते ?, यथारुचि करोतु, अस्माभिस्तु भवदाज्ञा शिरोबलेन कर्तव्या" । इति भद्रावचांसि श्रुत्वा For Personal & Private Use Only 4 नवमः पल्लवः |॥ ३५९ ॥ Hirww.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy