________________
श्रीधन्य
चरित्रम्
॥ ३५८ ॥
Jain Education Internatio
| तेन युष्मद्गृहोपरि तु महाराजस्य पुरातनी कृपाऽस्त्येव, अतो भवदीयं कार्य तद् मदीयमेव जानामि, नाऽन्तरं गणयामि । परं यदि अहमेकाक्येव तत्र गत्वा विज्ञप्तिं करोमि तदा सभायां केऽपि खला एवम् अलीकमुद्भावयेयुः'मन्त्री कथमपि लच्चादिना वशीकृतोऽस्य गृहे गमनार्थं प्रेरयति, तस्य गृहस्य प्रधानमनुष्यस्तु कोऽपि नागतः !' । केsपि वाचाला वदेयुः - 'महाराजस्याज्ञा एतावत्येव !, यदाज्ञां श्रुत्वा स्वेच्छ्या स तु नागतः, प्रत्युत राजानमाह्वयति । | राजा यदि स्वयं गच्छेत् तदा राज्ञो महत्त्वं कुत्र स्थितम् ?' | कोऽपि पुनर्जल्पेत्- 'यदि महाराजो भूत्वा वणिग्गृहे गमनं करिष्यति तदाऽस्मदादीनां गृहे कथं नागमिष्यति ?, प्रतिगृहगमने च राज्ञो लघुत्वं स्थास्यति' । एवं | विविधजनजल्पने राज्ञो महती कृपाऽस्ति तथापि किं ज्ञायते ? : राज्ञां चेतांसि क्षणस्थायीनि अस्थिराणि भवन्ति, अतः कदाचिद् मनसि विश्लेषागमने मदुक्तं सिध्येद् वा न । अतो यदि ईप्सितं सफलं कर्तुं समीहाऽस्ति चेत् तदा मया सह सुखासने स्थित्वा राज्ञ उपकण्ठमागन्तव्यम् । तत्रागत्य यादृशी ममाग्रे विज्ञप्तिः कृता तादृशी | तस्याप्यग्रे करणीया । तत्समयेऽहम् अन्यो भूत्वाऽवसरोचितवचनकथनेन भवत्याः कार्यं करिष्यामि । धन्योऽपि तत्र स्थितो भविष्यति सोऽपि प्रेरको भविष्यति । तत्रागमनेन भवत्याः कार्य सिद्धमेव ज्ञेयम्” । ततो भद्राऽभयोक्तं श्रुत्वाऽत्यद्भुतोपायनवस्तूनि लात्वा सुखसनाधिरूढा बहुदासी दासपरिवृताऽभयेन सह राजद्वारं गता । यावता सुखसनादुत्तीर्य सभान्तः प्रविष्टा तावताऽग्रतोऽभयेन उपकर्णं भूत्वा राज्ञे प्रोक्तम्- 'स्वामिन्! शालिभद्रमाता विज्ञप्त्यर्थमागच्छति सा स्वामिनाऽवधारणीया' । भद्रापि राज्ञः समीपमागत्योपायनमग्रे धृत्वा प्रणामं च कृत्वा स्थिता । राजा च सादरं हस्तसंज्ञया उपवेशनस्थानं दर्शयित्वा प्राह- 'सुभगे श्रेष्ठिनि ! स्वागतं तव, लीलापतेस्तव
For Personal & Private Use Only
नवमः पल्लवः
॥ ३५८ ॥
www.jainelibrary.org