________________
श्रीधन्य
नवमः पल्लव:
चरित्रम्
॥३५७॥
कतमाः ? दक्षिणतः कतमाः ?, एषां ज्येष्ठः कतर: ?, एषां मध्ये कया रीत्या स्थातव्यम् ?, एतत्सर्वम् | अनभ्यांसात् शालिन वेत्ति, अतः कथं तत्रागत्य श्लाघनीयो भवेत् ? | महाराजस्य पूर्णकृपाऽद्य यावद् घटिकामात्रमपि परतन्त्रभावेन सेवकस्योपरि महाराजेन कृपाऽवधार्यते, 'सेवकः क्षणमपि दुःखितो मा भूत्' एवं चेद् महती कृपाऽस्ति तदातु सेवकस्य मानवृद्धयर्थस्वयमेव श्रमं कृत्वाऽत्रागत्य स्वचरणन्यासेनेदं सेवकगृहं पवित्रयतु । तदा च अस्माकं सर्वेऽपि मनोरथाः पूर्णा भविष्यन्ति, सेवकश्य सर्वेष्वपि इभ्येषु अधिक: श्लाघ्यतरो भविष्यति।स्वामिनां घटीचतुष्कमात्रश्रमेण सेवकस्य भवं यावत् सुख-मान-वृद्धिर्भविष्यति। एतद्'मदुक्तं भवतां प्रसादेन भवेद्, नान्यथा । यतो भूपतयो मन्त्र्यधीना भवन्ति । भवादृशाः परदुःखभअकाः कृपालवः सज्जनाः परस्येप्सितं कुर्वन्त्येव । अस्मिन् महानगरे सर्वेषां पुरुषाणां मध्येऽधुना तु द्वावेव पुरुषोत्तमौ भवतः, एकस्तु मम जामाता भवतां भगिनीपतिः, द्वितीयो भवांश्व, यो हि परेषां मनोरथपूरणे कल्पद्रुमः । अतो यदि भवान् कृपा कृत्वा 'इदं करणीयमेव' इति हृदि अवधारयति तदा तु जातमेव नान्यथा । अस्मादृशानां वणिग्मात्राणां गृहे महाराजस्यागमनं कथं सम्भाव्यते ?, अतोऽस्मदीयगृहलज्जा भवदधीना, पश्याद् यद् रोचते तत् करोतु" | अथाऽभयो भद्रोक्तं श्रुत्वा प्राह-'भवत्या यदुक्तं तत् सत्यम् । परं युष्मदीयमनोरथपूरणेऽहं विलम्बं 'कुर्यामिति सर्वथैव न श्रद्धेयम्, यतो युष्माभिः सहाऽनेकधा सम्बन्धोऽस्ति । प्रथमस्तावत् श्रीमज्जिनचरणोपासका वयम्, द्वितीयः शालिभद्रभगिनी मद्भगिनी चएकत्र गृहे विवाहिते, तृतीयश्च महाराजस्य गोभद्रश्रेष्ठी परमप्रिय आसीत्,
१.मयोक्तं प्र.१२. भवतीभिः प्र.३. करोमीति प्र.।
॥३५७॥
For Personal & Private Use Only
Education
Noww.sainalibrary.org