________________
श्रीधन्य
चरित्रम्
॥ ३५६ ॥
Jain Education Internation
| कारयित्वा राज्ञाः सम्मानं दापयित्वा पुनरत्रैवानेष्यामि, अतः शीघ्रं मया समं प्रेषयतु । अन्ये केsपि महेभ्य | राज्ञो मिलनार्थं राजद्वारमागत्य बहुद्रव्यव्ययं कुर्वन्ति, आगत्य आगत्य पुनः पुनर्यान्ति परं दर्शनं न प्राप्नुवन्ति अस्मदादीनां सेवां विज्ञप्तिं च कुर्वन्ति, तथापि कस्यापि मिलनं भवति, कस्यापि मिलनं न भवत्येव । पुण्यवतो भवत्यां पुत्रस्य मिलनार्थ तु प्रत्युत राजा आतुरोऽस्ति, अतोऽत्र न काऽपि शङ्का विधेया" । एवम् | अभयवचनानि श्रुत्वा सहर्ष भद्रा प्राह - "स्वामिना यदुक्तं तत् सत्यमेव । भावदृशानां जगति रत्नभूतानां वचसि काऽधीरता ?, को मूर्खो विकल्पयेत् ? । अहमपि भवत्प्रसादेन जानामि - इह लोके लज्जा प्रतिष्ठा - मानमहत्त्व - यशः ख्याति शोभा- समृद्धि - सुख-सौभाग्य- वैरिजयादीनामेकमेव राज्ञः सम्मानम् अवन्ध्यहेतुरस्ति । राजद्वारगमने सहजो विघ्नध्वंसो दृश्यते । यतः -
"" गन्तव्या राजसभा, द्रष्टव्या राजपूरिता लोकाः । यद्यपि न भवन्त्यर्थास्तथाप्यनर्था विलीयन्ते " ||१||
ततः कृपयाऽऽह्वयति नृपस्तत्र किं किं कथनीयम् ?, तत्तु परमपुण्योदयसूचकं सकलाऽभीष्टसाधकम् अहमपि वेद्मि | परम् अयं मम शालिरज्ञातराजसभाव्यतिकरः कदापि राजसभायां गतो नास्ति । राजसभायां षट्त्रिंशद् | राजकुलीना नराः, तत्रायं किमपि न वेत्ति यद् अयं प्रथमं नमनीयोऽयं च पश्चाद् नमनीयः, राजसभायाम् | एतद्वाच्यम् भवति एतत्तु न वाच्यं पुनरत्रासने उपवेष्टव्यम् अत्र नैव, एवं किञ्चिदपि न वेत्ति । पुनस्तत्र बहवः धना महेभ्या बहवो मन्त्रिमुख्या बहवश्व क्षत्रियोग्रकुलोत्पन्नाः स्थिताः सन्ति, एतेषामग्रतः कतमाः ?, वामतः
१. गन्तव्यं राजद्वारे प्र. ।
For Personal & Private Use Only
नवमः
पल्लवः
॥ ३५६ ॥
www.jainelibrary.org