________________
श्रीधन्य चरित्रम्
·
॥ ३५५॥
Jain Education Ind
बहुयत्नैर्यथायचि सुखासनादियानाऽधिरूढं कृत्वा, दिव्यवादित्रनिर्घोषाद्याडम्बरपूर्वकम् इहानय, यथाऽहं | कृतधर्मस्य तस्य पुण्यवतो दर्शनं करोमि । इति राजादेशं लब्ध्वा शुभपरिकरयुतोऽभयः सहर्षं शालिभद्रगृहं गतः । सेवकैरग्रत एवं भद्रायै अभयागमनं ज्ञापित् । भद्राऽपि स्वगृहवीथ्यां यावदभय आगतस्तावत् स्वयं बहुभिः सरवी दासीभिः परिवृता स्वगृहाङ्गणतः शतपदं यावत् सम्मुखमागता । तत्र अत्यादरपूर्वकं न्युञ्छनानि कृत्वा गृहान्तर्नीतः । भव्यासनेः स्थापयित्वाऽत्यद्भुतनवनवदेशोत्पन्नवस्तूनाम् उपायनानि कृत्वा, पुष्प-ताम्बूलइत्तरादिभिः शिष्टाचारं कृत्वाऽग्रे स्थित्वा हस्तौ संयोज्य भद्रा प्राह- 'अद्याऽस्माकं महान् पुण्योदयः, अद्य सुप्रभातदिवसः, अद्य पूर्णा मनोरथा यत् स्वामिभिरमात्यैः स्वचरणन्यासैर्गृहं पावनं कृतम् । स्वामिना एतावान् श्रमः कृतः ?, गृहे स्थितेनैव किमाज्ञा न कृता ? | स्वाम्यादेशश्रवणमात्रेण निर्दिष्टं कार्यं शिरोबलेन मया | कृतमभूत् । सेवकानां हि स्वामिनिर्दिष्टकार्यकरणे आज्ञामात्रविलम्बो भवति' । एवं भद्रावचः श्रुत्वाऽभयः प्राह“यद् भवत्योक्तं तत्सत्यम्, अहं जानामि भवादृशानां कुलजानामियमेव स्थितिरस्तिः परन्तु मयापि स्वाम्यादेशः प्रमाणीकर्तव्यः । यताऽद्य महाप्रसन्नचित्तेन राज्ञा मां प्रत्युक्तम्- 'त्वं सपरिकरः शालिभद्रगृहं याहि, गत्वा च सुखप्रश्नं कृत्वाऽत्यादरेण यत्नपूर्वकम् अत्रानय येनाऽहं पुण्यशालिनः शालिभद्रस्य मुखं पश्यामि' । इति नृपादेशं प्राप्य शालिभद्रस्यामन्त्रणायाऽहमागतः । तेन शालिभद्रं मया सह संप्रेषयतु, तथाऽत्युत्सुकस्य राज्ञो | मनोरथः फलवान् भवेत् । प्रसन्नीभूतो राजा महत्त्वबीजं महाप्रसादं करिष्यति, तेन समस्तेऽपि पुरे भवद्गृहस्य | सशः प्रतिष्ठावृद्धिर्भविष्यति दुर्जनानां च मुखम्लानिर्भविष्ययति । अहम् एकत्र सुखासनेऽश्ववारिकां
For Personal & Private Use Only
नवमः
पल्लवः
|॥ ३५५॥
www.jainelibrary.org