________________
प्रथमः
पल्लव:
लेखनादिक्रियास्वपि नाऽतिलालसः । स्वगृहागतानां सज्जनादीनामुचित्तिंप्रतिपर्ति कर्तुं न जानाति । तथापि काप्यनुत्तरा तव श्रीधन्य-17 मूढता, यदेष धन्यः पुनः पुनः श्लाघ्यते, गृहभारोद्यमधुरां बहन्तो वयं च निन्द्यामहे । यः पुमान सदसद्व्यक्तिं कर्तुं न जानाति स | चरित्रम्
| कस्य न हास्यो भवति? | यदुक्तं लोकेऽपि - "काके कार्यमलौकिकं धवलिमा हंसे निसर्गस्थितिर्गाम्भीर्य महदन्तरं वचसि यो भेदः स किं कथ्यते ? |T
एतावत्सु विशेषणेष्वपि सखे! यत्रेदमालोक्यते, के काकाः खलु के चहंसशिशवो ? देशाय तस्मै नमः" ॥२८॥
हे तात! त्वयैव वयं प्रौढपदे स्थापिताः, अधुना पुनर्महेभ्यानां पुरतो धन्यकुमारस्यैव गुणवर्णनाद् वयं विगोपिताः । धन्यस्य वर्णनेन गुरुं कुर्वन अस्मान् लघयसि, यथा तुलायामेकं चेलं गुरूक्रियते तदाऽपरं लघु स्यात् । हे तात ! सर्वेष्वपि पुत्रेषु तव तुल्यं वात्सल्यमुचितं, तथा सर्वेषु तटवृक्षेषु सरसः सलिलं भवति । पुत्राणां सम एवं गुणाधाने पिता उचितज्ञानां पुरुषाणां रेखाप्राप्तो भवेद्, यथा महाव्रतानां सर्वेषां सविधिपूर्वकं समाने पालने व्रती रेखा प्राप्तो भवति। तथा च, हे तात! शास्त्रे पुत्रस्य गुणस्तुतिर्निषिद्धा सा त्वया क्रियते, यतस्त्वमेव वद, निषिद्धस्यादृतिः कस्य यशसे भवति? । पित्रा यो बहुतरवर्णन-लालनादिनोच्छङ्खलितः पुत्रः स कुटुम्बक्षयकारी स्यात् । काष्ठजोग्निः किं कष्ठानि न दहति ? | हे तात ! त्वया धन्ये काऽधिकता दृष्टा ? अस्मासु पुनः का न्यूनता दृष्टा येनाऽहर्निशं दैवतस्येव धन्यगुणवर्णनं करोषि ? । हे तात ! यदि मिथः स्नेहलता वर्द्धमाना इष्यते तदा त्वया धन्यप्रशंसाऽग्निरतः परं नोजवाल्यः समदृशा च भाव्यम् । एवं पुत्राणां वचः श्रुत्वा कुपितान् पुत्रान् प्राह-हे वत्साः! यूयं
| ॥२८॥ गडुलजलाशयवद् मलिनाशयाः, मत्सामकतकफलैः स्वच्छाः सम्प्रति भवत । भो पुत्राः ! हंसस्येव शुचेर्विशुद्धोभयपक्षस्य मम
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org