________________
श्रीधन्यचरित्रम्
.
प्रथमः
पल्लव:
॥२७॥
"प्रत्यक्षे गुरवः स्तुत्याः, परोक्षे मित्रबान्धवाः। कर्माऽन्ते दासभृत्याश्च, पुत्रा नैव मृता स्त्रियः ॥२॥
"यद्दिनतोऽसौ पुत्रो जातस्तद्दिनतोऽस्मद्गृहे मन्त्राकर्षितेव लक्ष्मीः सर्वतो वृद्धि प्राप्ता । समस्तपौरजनानां चित्तचौरा अस्य पुत्रस्य गुणाः केनानि निपुणेन न गणयितुं शक्याः। केनापि पूर्वजन्मकृतभाग्योदयेन मद्गृहे सुरगुणाऽमुना पुत्ररूपेणाऽवतारो | जगृहे" । इत्यादिबहुभिः प्रकारैर्यथा यथा धन्यगुणवर्णनं करोति तथा त्रयोऽग्रजा धन्यस्तुत्य (तिम) सहमाना ईjया ज्वलन्ति। ततस्ते ज्वलितान्तःकरणाः प्रकोपवह्नौ स्नेहबहुलामाहुतिं विधायोत्तम्भितभुजा धनसारं पितरं समाहूय सगर्वमिति प्राहुः-हे तातः ! वयं नानापण्यैकपात्रं यानपात्रं भृत्वा सागरं मत्स्यजातीयग्राहा इव पुनः पुनरवगाहामहे । तथा पुनः पुनर्विविधदेशान् पर्यटामः । साहसं धृत्वा द्रविणपूर्णान् शकटान् भृत्वा दुस्तरामटवीमटामः, पथिगतशीतादिक्लेशान् सहामहे । तथा ग्रीष्मातापितक्षेत्रे क्षेत्रारम्भान् कुर्महे, दारिद्यकणपिष्टिघरट्टकान् अरघट्टांश्च खेटामहे । चतुष्पथे विपणि वाणिज्यं कुर्महे। अनेकेषां वणिजामुद्धारके द्रव्यं द्रव्य-क्रयाणकं वा दद्महे, अहर्निशं तेषां लेख्यककष्टं सहामहे, प्रतिदिनं तेषां गृहे लभ्यग्रहणार्थमुद्गाहिकां कुर्महे, विविधवचनरचनाप्रकारैर्लभ्यं लात्वा गृहभारनिर्वाहं कुर्महे । तथा सामन्त-भूपादिभ्यो दत्तं धनं विविधकलाकष्टेन लभामहे । राजद्वारे चतुरङ्गायां सभायां विविधाशयगर्भितानां वितर्ककर्कशानां वाचा प्रत्युत्तरं दत्त्वा चतुरजनमनांसि रञ्जायामः । दुर्जनरूपग्राहजीवर्दुस्तरां पारवश्यरूपकल्लोलैर्दुर्धरां रेवानदीं मतङ्गजा इव राजसेवां भजामः । एवमनेकान् अर्थोपायान् विधाय श्रियं कोटीमानयामः । इत्याद्यस्मत्कृतोद्यमं कष्टमवगणय्य एतादृशं धन्यकुमारं प्रशंससि । तथाहि-अद्यापि निर्लज्जः सन् बालक्रीडनान्न विरतोऽस्ति । व्यापारोद्यमस्तु दूरे, परन्तु सुलभानि गृहकार्याणि स्वभाजन-वस्त्रादीनि स्थाने न करोति ।
| ॥२७॥
Jan Education International
For Personal Private Use Only
www.jainelibrary.org