________________
श्रीधन्यचरित्रम्
॥ २६ ॥
जयति । चक्रव्यूह - गरुडव्यूह -सागरव्यूहादिस्कन्धावारनिवेशनैककुशलः, येन शत्रुः पराभवं कर्तु न शक्नोति । व्यापारे | गान्धिकवणिजां विविधक्रयाणके क्रयविक्रयकलासु दक्षो जातः । सौगन्धिकेऽतिचतुरतया गन्धपरिकर्मणि परस्परं संयोगादीन् जानाति । दूष्यवाणिज्येऽदूषितमतिरभूत् । मणिरत्नवाणिज्ये गुणदोषज्ञतया समस्तरत्नवणिग्भिः प्रमाणितः । सुवर्णवाणिज्ये 'सुवर्णरूप्यवणिग्भिर्वर्णितः । मणिकारवाणिज्ये नानादेशोद्भवानि वस्तूनि गुण-दोषप्रकटनपूर्व चोपलक्ष्य गृह्णाति ददाति च । सार्थवाहकर्मणि सोत्साहः ससत्त्वः, नानादेशाऽऽचार भाषा-मार्गकुशलतया सांयात्रिकान् सुखेन ईप्सितस्थानं प्रापयति । | राजसेवायां सर्वावसरसावधानतयाऽवसरोचितवाक्पटुत्वेन च राज्ञामतिवल्लभो भवति । देवताभक्तिषु दृढधैर्यः, | समस्त देवपूजनविधिकुशलत्वेन स्वल्पकालेन देवानां प्रसत्तिकारकोऽभूत् । प्रधानमन्त्रिकर्मणि अत्युग्रबुद्धितया राज्ञश्चित्ताभिप्रायं वेत्ति, छल-बलेन राज्यं च रक्षति । योगक्रियासु यम-नियमाssसनादीनि योगाङ्गानि सप्रभेदेन जानाति । औत्पत्तिक्यादिभिर्बुद्धिभिर्विबुधमनोरञ्जको जातः । समस्तनीतिषु विनीतश्च शोभते । किं बहुजल्पितेन ? सर्वविज्ञानपारगो जातः । समस्तानां कलानां तेजसां यशसां विविधगुणानां धिषणानां च स कुमारः प्रियमेलकतीर्थरूपो ज्ञेयः । गुणैर्बालभावेऽपि वृद्ध इव भाति । क्रमेण बालत्वमतिक्रम्य तरुणीहरिणीक्रीडावनं यौवनं प्राप्तवान् । अथ जन्मसमयादारभ्य धनसारश्रेष्ठिगृहे धन्यकुमारभाग्यानुभावतः सर्वतो धनधान्यादिलक्ष्मीर्वृद्धिमगात्, तदा जनकः सर्वतो लक्ष्मीवृद्धिं दृष्ट्वा कोटिजनानां पुरतो धन्यकुमारवर्णनं करोति, नीतिषु निषिद्धमपि गुणैराकृष्टो जनकः प्रतिक्षणं वर्णयति । यदुक्तम्
१. वणिजा प्र० ।
Jain Education International
For Personal & Private Use Only
प्रथमः
पल्लवः
॥ २६ ॥
www.jainelibrary.org