SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ श्रीधन्यचरित्रम् प्रथमः पल्लवः ॥२५॥ प्रवीणधुरां वहति । श्रृङ्गाररसशास्त्रेषु तात्पर्यार्थवेत्ता समजनि। कवित्वकलासु कुशलतया पूर्वकविकृतकाव्येषु दूषण-भूषणानि प्रकटयति । साहित्ये स्वच्छमतितयाऽवसरोचितं वाक्कुर्वन् न वञ्च्यते । पुराणशास्त्रेणु अपुराणबुद्धिरासीत् । गणकशास्त्रेषु द्योतितमतितया ग्रहचारादीन् विशदरीत्या प्रकाशयति। प्रश्नोत्तरविवादेषु कुशाग्रबुद्धितया सद्य उत्तरयति। प्रहेलिका-ऽन्तापिकाबहिर्लापिका-ऽलङ्कारशास्त्रेषु केलिकृद्मतिर्जातः । समस्यासु श्रवणमात्रासु दत्तोत्तरः समजनि । नानालिपीनां वाचने न स्खलति । लीलावत्यादिसङ्ख्यावेदि-प्वद्वितीयोऽभूत् । निघण्ट्वादिवैद्यके आदान-निदानादिवैद्यक्रियासु च अनवद्यमतिरिति ख्यातः । सर्वोषधयोगप्रयोगेषु प्राप्ताम्नायो जातः । जल्पनकेलिष्वनल्पबुद्धितयाऽबाध्योत्तरः । गूढश्लोकार्थमगूढमिव प्रकट्यति। नाटकग्रन्थकषपट्टेषु मतिहाटकं घृष्ट्वा समुदद्योतितम् । अन्तर्धानादिविद्यायां सावधानतया सर्वाम्नाय आत्मसात्कृतः । औषधिरस-रसायन-मणिपरीक्षायां शीघ्र गुण-दोषान् वक्ति । उत्तालेन्द्रजाल विद्याया हार्द सहजमिव प्रकट यति । बसन्तराजादिशकुनशास्त्रेषु दृष्टिपथाऽवतीर्णमात्रेषु भूतभविष्यत्पदार्थभवनं साभिज्ञानपूर्व कथयति । सङ्गीत-च्छन्दःशास्त्रार्थनिर्णयं सवर्ण-मान-ताल-मात्रानुभावं प्रस्तारादींश्च विशदरीत्या प्रकाशयति। समस्तरागार्णवपारीणः । अतिसुस्वरनामकर्मोदयात् सकलजनमनोवशकारकं लय-मूर्च्छना-रसयुक्तं गीतगानं विदधाति, येन वनस्थाः करिहरिणादयोऽपि निःशङ्कतया बहुजनसङ्ककुलितनगरे समागच्छन्ति। गजाऽश्वपरीक्षासु तेषां दमनशिक्षासु चाऽतिकुशलो जातः । मल्लयुद्धक्रियासु मर्मज्ञतया कल-बलेन प्रतिमल्लपराजयकुशलो जातः । धनुरादिशस्त्रक्रियासु परिकर्मितमतितया बुद्धिप्रागलभ्येन च हेलया प्रतिभटं १. कवित्तषु प्र० । २. एतादृशं लय-प्र० । ३. वनस्थहरिणकरिण्यादि निः - प्र० । ॥२५॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy