________________
श्रीधन्य
चरित्रम्
॥ ३५३ ॥
Jain Education Intend
एकोऽपि कम्बलः सेवकानां पार्श्वे नास्ति, अतः किं कुर्मः ? | सेवकास्तु प्रथमत आशां धृत्वा स्पामिनश्चरणमागताः, स्वामिना तु तदा इच्छा न कृता, तदाऽस्माभिस्तस्या अग्रे विक्रीताः । परन्तु धन्या स्वामिनयस्यच्छत्रच्छाया, यत्रेदृशा महेभ्याः परिवसन्ति; यत एके नैव अस्माकं परदेशतोऽतिमहार्घ वस्त्वानयनश्रमः सफलीकृतः । अन्यत्तु यद् आज्ञापयति तद् मस्तकबलेन प्रमाणीकरणप्रवणाः स्मः' । एवं प्रत्युत्तरं सम्मानं च कृत्वा वेत्री विसर्जितः । वेत्रिणापि उपभूपमागत्य सर्वं निवेदितम् । तदा श्रेणिकेनाऽभयेन च एकः प्रधानपुरुषः शालिभद्रमातुः पार्श्वे प्रहितः । सोऽपि तत्र गतः । देवभवनकल्पं गृहं दृष्ट्वा विस्मतचित्तो भद्रभ्यर्णं गतः । तयाऽपि अत्यादर-सम्मानपूर्वकम् आसने स्थापितः पृष्टं चागमनप्रयोजनम् । तदा तेनोक्तम्- 'ये भवत्या रत्नकम्बला गृहीतास्तन्मध्याद् एकं रत्नकम्बलं 'लग्नमूल्येन महाराजो मार्गयति, पट्टदेव्या आग्रहपूरणार्थमवश्यं प्रयोजनमस्ति अत एकः कम्बलो दीयताम्; लग्नमूल्यं च गृह्णातु' । एवं राजपुरुषोक्तं श्रुत्वा भद्रया प्रोक्तम्- 'इदं धन-धान्य- गृहाहिकं सर्वं राजकीयम्, अत्र मूल्येन किं प्रयोजनम् ?, अत्र मूल्यमार्गणमनुचितम् । चेत् परकीयः कोऽपि भवेत् तदा तस्य मूल्यकथनं भवेत् । यद् महाराजस्य कार्ये आयातं तद् अस्माकं महान् भाग्योदयः । महाराजस्याज्ञानुकूलमेव सेवकैः कार्यं साध्यते तदा शतशः कार्याणि निष्पान्नानि । ईदृशैः कम्बलशतैर्महाराजस्य न्युञ्छनानि क्रियन्ते । यत् सेवकगृहस्थितं वस्तु स्वामिकार्यकरं भवति ततोऽधिकं फलं न किमप्यस्ति । धन्यः स दिवसो यद् अस्मदीयं वस्तु | स्वामिचित्तप्रसत्तिकारकं भवति । परन्तु किं करोमि ?, महाराजस्यानेन कम्बलेन प्रयोजनमस्तीति न ज्ञातं पूर्वं 9. महाराज्ञो रोक्यमूल्येन यद्भवत्या गृहिता रत्नकम्बला तन्मध्यादेकं कम्बलं गृहितमूल्येन न न्यूनेन मार्गयति प्र. ।
For Personal & Private Use Only
नवमः
पल्लव:
|॥ ३५३ ॥
www.jainelibrary.org