SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् | नवमः पल्लव: ॥३५॥ दर्शयिष्यते तदा कदाचिद् अन्तःपुरस्त्रियो मार्गयिष्यन्ति, तदा च द्रव्यव्ययकरणमापतिष्यति !' । इति कृपणतादोषेण बहिरेव विसर्जनं करोतु सुखेन, परं स्नेहरीतिर्नैषा । यत: षऋतुसुखदानक्षमा रत्नकम्बला आगता अभूवन्, ते च स्वयमेव विलोक्य विसर्जिताः, एकोऽपि कम्बलोऽस्मदर्थं तु न गृहीतः, । अतो भवतां कृत्रिमः स्नेहः" राज्ञा प्रोक्तम्-“नहि नहि कृपणताऽस्ति, मया तु एवं ज्ञातम्-अभिनवं वस्तु इति सत्यं परन्तु कर्कशस्पर्शोर्णजातीयत्वेन राज्ञीनां परिभोगाय चित्तप्रसत्तिकारका न भविष्यन्ति, इति हेतोर्विसर्जिताः, न तु द्रव्यव्ययभीरुतया" | रायोक्तम्-'भवच्चित्ते चेद् एवं तर्हि एवं मार्गयित्वा मम समर्पयतु, चेद् अयं नागमिष्यति तदाऽहं भोजनं न करिप्यामि' | इति हठाग्रहं घृत्वा स्थिता । राज्ञाऽपि तस्याग्रहं ज्ञात्वा पुनरास्थानओभागत्य अभयाप ज्ञापितं, यद् बाल-स्त्र्यादीनां हठो दुर्निवारः, अतो यथा तथा कृत्वा एकस्तु रत्नकम्बलो ग्राह्य एव' । ततो राजाज्ञया वाक्चतुरो वेत्री व्यापार्यभ्यर्णे प्रेषितः । स तत्र वणिजामभ्यर्णे गत्वा उवाच-भोः साधुकारा व्यापारिणः मगधाधिपः श्रीमुखेनाज्ञापयति, अतः सपादलक्षं मूल्यं गृहीत्वा एकं रत्नकम्बलं ददतु, नात्र कोऽपिसन्देहः, रोक्यद्रव्येण मार्गयति' । ततो वणिजः सम्मानपूर्वकमिति प्रत्युत्तरमभाणिषुः-“भो भद्र ! राज्ञेऽस्माकं सेवाकानां सबहुमानं प्रणामो वक्तव्यः । विज्ञप्तिश्य वक्तव्या-यत् स्वामिना रत्नकम्बल आनायितस्तद् भवतो महती कृपा, परन्तु 'अस्माकं स्वामिनं नत्वा स्वोत्तारके गच्छतां शालिभद्रव्यवहारिणो मन्दिरस्याऽधो भूत्वा गमनं कुर्वतां पारदेशिका व्यापारिण' इति ज्ञात्वा शालिभद्रमात्रा आह्वाय्य पृष्टम्-'किं वस्तु विक्रीयते भवद्भिः ?' | तदाऽस्माभी रत्नकम्बला दर्शिताः । तया तु मुखमार्गितं मूल्यं दत्त्वा सर्वेऽपि गृहीताः । अधुना तु १. वयं प्र.। in Education Intern al For Personal & Private Use Only www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy