________________
श्रीधन्य चरित्रम्
नवमः पल्लव:
॥३५१॥
'बहुरत्ना वसुन्धरा' इत्युक्तिः सत्याऽस्ति" ततस्तेषां कम्बलानां खण्डान् कृत्वा शालिभद्रस्य पुण्यं वर्णयन्तः स्वोत्तारके गताः । ततो भद्रया स्नानावसरे चेटीहस्ते द्वात्रिंशद्वध्वर्थं ते खण्डा दत्ताः । दासी तान् खण्डान् लात्वा स्नानगृहं गता | प्रतिवधु एकैकः कम्बलखण्डो दत्तः । ताभिरुक्तम्-'किमिदम्?' किं कुर्मः ? चेट्या प्रोक्तम्"श्रेष्ठिन्यः ! अद्य पारदेशिका व्यापारिणः सपादसपादलक्षमूल्यान् रत्नकम्बलान् पोडश लात्वा मातुर आगताः । कम्बला दर्शिताः । मात्रा प्रोक्तम्-'द्वात्रिंशत् समानयत' । तैरुक्तम्-'मात: ! इमे यत्र तत्र न भवन्ति । नेपाले ज्वलदिष्टकासु अग्नियोनिमूषका: कदापि उत्पद्यन्ते, तेषां रोमाणि गृहीत्वा इमे निष्पाद्यन्ते । समस्तदेशे भ्रमणं कुर्वद्भिरेतावन्त एव लब्धाः, नाऽन्ये मिलन्ति | कस्मिन् कस्मिन् काले उत्पद्यन्ते, न सदा । एषा गुणा ऋतुत्रयेऽपि सुखदाः, अग्नौ क्षालने च शुभ्रा भवन्ति' एवं मात्रा अतिनूतनम् अद्भुतं च वस्तु ज्ञात्वा, प्रतिकम्बलं सपादलक्षमूल्यं दत्त्वा षोडशापि गृहीताः । तत एकैकस्य द्वौ द्वौ खण्डौ कारयित्वा भवतीनां 'व्यापाराय इमे खण्डाः प्रेषिताः" । एवं दास्युक्तं श्रुत्वा ताभिस्ते खण्डा हस्ते गृहीताः । ऊर्णामयत्वेन कर्कशस्पर्श ज्ञात्वा, मुखमोटनं कृत्वा, तैः खण्डैश्चरणतलानि प्रोञ्झ्य, निर्माल्यकूपिकायां क्षिप्ताः । चेट्यापि भद्राये गत्वा सर्वं तज्ज्ञापितम् । भद्रयापि विहस्य प्रोक्तम्-'देवदूष्याणामग्रे एते कम्बलाः कियन्मात्रा : ?'|
अथ राज्ञः पट्टदेवी चिल्लणाभिधाना तद्वार्ता श्रुत्वा राज्ञोऽग्रे आक्रोशपूर्वकमित्यभाषत-"दृष्टोऽद्य मया भवता स्नेहसम्बन्धः !, यद् यद् अभिनवं वस्तु परदेशतो भवदने आयाति तत् स्वयमेव विलोक्य द्रव्यव्ययभीरुत्वेन बाह्यत एव भवान् विसर्जनं करोति, अन्तःपुरेतु दर्शनार्थमपि न प्रेषयति, तत्करणहार्द मया लब्धम्-'यद्यन्तःपुरे १. व्यापारणाय प्र.।
For Personal Private Use Only
haw.jainelibrary.org