________________
श्रीधन्य
नवमः पल्लवः
चरित्रम्
भाण्डागारिकेणाऽपि तानाहूय श्रीगृहे गत्वा श्रीगृहद्वारमुद्घाटितम् | व्यापारिणो मध्ये प्रविष्टा यावत् पश्यन्ति तावता एकतो रूप्यकाणाम् अगणितपुआ: पतिताः सन्ति, अन्यतो दीनाराणां पुआ: पतिताः सन्ति, अपरतो मधुकरीणां समूहा यथा तथा पतिताः सन्ति, अग्रतः स्थाने स्थाने षट्पञ्चाशन्नाणकानाम् अनेकपुआ: पतिताः सन्ति, ततोऽग्रतो मुक्ताफलानां कोष्ठा भृताः सन्ति, ततोऽग्रतो हिरण्कानाम्, ततोऽग्रतो माणिक्यगणानाम्, ततो नीलमणीनाम्, ततो वैडूर्यरत्नानाम् , ततो विद्रुमाणां पीरोजकानां रक्तमणीनां च। एवं चतुरशीतिरत्नानाम् अगणितसङ्ख्यां दृष्ट्वा विस्मयमापन्नाश्चिन्तयितुं लग्ना:-'किमिदं सत्यं वा स्वप्नं वा इन्द्रजालं वा कापि देवमाया वा? किमस्ति ?, य एतासां श्रियां स्वामी स कीदृशो भविष्यति ? | अहो ! अस्य पुण्यप्राबल्यम् !! इयधनस्य स्वामी यच्चिन्तयेत् तत्कुर्यात् । धन्यमिदं राजगृहं पुरं यत्रेदृशा व्यवहारिणः परिवसन्ति । 'राजगृहम्' इति नाम सान्वर्थम्' अथ तैर्यथारुचि नाणकं मार्गितं, भाण्डागारिकेण तद् लेख्यकं कृत्वा दत्तम् नाणकं गृहीत्वा मनसि चिन्तयितुं लग्ना:-'अस्माभिरज्ञत्वेन नाणकस्याऽधृतिः कृता तन्न भव्यं कृतम्' एवं मनसि लज्जामाना उपभद्रमागताः । भद्रयोक्तम्-'युष्माभिरीप्सितं धनं लब्धम् ?'तैरुक्तम्-'मात: ! तव प्रसत्त्या किं न प्राप्यते ?'। भद्रया पुनरुक्तम्-‘एकैकस्य द्वौ द्वौ खण्डौ कुरुत, यतोऽस्मदीयपुत्रस्य द्वात्रिंशद् वधूट्यः, कम्बलास्तु षोडश, तत्कथं सङ्गतिम् अङ्गति ?, अतः खण्डान् कारयामि' । तच्छुत्वा व्यापारिणश्चित्ते चमत्कृताश्चिन्तयन्ति-"अहो पुण्यप्रागल्भयम्, यः कोऽप्यन्यो यथा तथा कृत्वा एकं गृह्णाति स जीववद्यत्नेन रक्षति, पर्वादिदिने व्यापृणोति। इयं तु अग्रतः खण्डान् कारयति, तत्रापि न काचिद् विचारणा, अतो जगति पुण्याऽपुण्यर्योर्महदन्तरं दृश्यते।
||३५०॥
in Education
a
l
For Personal & Private Use Only
www.jainelibrary.org