________________
चरित्रम्
नवमः पल्लवः
॥३४९॥
गृहद्वारमात्रे ईदृश ऋद्धिविस्तरस्तदाऽस्य गृहास्याऽन्तः कीदृशं भविष्यति ? | नूनं रत्नकम्बलान् यथारुचि ग्रहीष्यति' । इति विचारयन्तो द्वितीयभूमौ गताः। तत्र तु सूर्यातपवद्रत्नरुद्योतितं गृहं पश्यन्तो भद्राऽऽसन्नं गताः । भद्रयाऽपि सादरं शिष्टाचारं कृत्वा निवेशिताः | पृष्टं च - 'युष्माभिः किमानीतम् ?' । तैरुक्तम्- || 'रत्नकम्बलाः' । भद्रयोक्तम्-'कीदृशास्ते?' | ततस्तैन्थिमुत्कीर्य दर्शिताः । ततो भद्रयोक्तम्-'के गुणा एषाम्?'। तेः पूर्ववत् स्वरूपमुक्तम् । भद्रयोक्तम्-'किं मूल्यमेषाम् ?' | तैरुक्तम्-‘एकैकस्य सपादलक्षम्' । भद्रा प्राह'द्वात्रिंशद्वधूनाम् एकैकसमर्पणहेतोरस्माकं तु द्वात्रिंशता प्रयोजनम्, भवद्भिस्तु षोडशसङ्ख्यया आनीताः । परं किं क्रियते ?, अत एतान् पाटयित्वा द्वौ द्वौ खण्डौ कुरुत, येन वधूनाम् एकैकखण्डं दास्यामि' । इति भद्रावाक्यं श्रुत्वा विस्मयमापन्ना ईषद् विहस्य परस्परमुपकर्णं वक्तुं लग्नाः- किमियं वातुला भ्रान्तचित्ता वा वदति ? राजसदृशोऽपि यम् एकमपि ग्रहीतुमसमर्थोऽभूत् तस्येयं जरती वक्ति द्वात्रिंशत् कथं नाऽऽनीताः ?, पुनरेकैकस्य खण्डौ कुरुत' । किमियं वक्ति ? यस्था वचने को विश्वासः समुत्पद्येत ?" तदाऽन्येनोक्तम्-'किमत्रार्तिः क्रियते भवता ?, अस्याः कथनमात्रेण किं खण्डाः कृता अस्माभिः ? धनं कुत्रास्ति ?, यदा धनं दास्यति ततः पश्चाद् यद् इयं वदिष्यति तत् करिष्यामः' । इति परस्परालापं कृत्वा-'मातर्वयं पारदेशिका गृहगमनोत्सुका उद्याहिकया व्यवसायं न कुर्मः रोक्यरूप्यकैर्व्यवसायं कुर्मः, अतस्तावद् धनं ददातु, पश्याद् भवत्या आशयाऽनुकूलाः खण्डाः क्रियन्ते' । ततो भद्रया व्यापारिणां मनस्तु अधृतिं ज्ञात्वा ईषद् विहस्य भाण्डागारिकस्याज्ञा दत्ता - 'येन नाणकेनैते प्रसन्नचित्तास्तन्नाणकं विंशतिलक्षरूप्यकसङ्ख्यया देहि'।
॥३४९॥
For Personel Private Use Only
dww.ainelibrary.org