________________
श्रीधन्य चरित्रम्
नवमः पल्लव:
॥३४८॥
वाणिज्यकोविदा विच्छायवदना राजानं नत्वा उत्थाय गतोत्साहा: स्वोत्तारके गच्छन्तः परस्परं व्यापाराला च कुर्वन्तः शालिभद्रमन्दिरस्याऽधो गच्छन्ति | वदन्ति च - "भ्रातरः! यदीदृशे महानगरे विक्रयो न जातस्तदा अतोऽधिकं किं नगरमस्ति 'योमे रत्नकम्बला विक्रेष्यन्ते ? | महाराजाधिराजः श्रेणिकसदृशोऽपि ग्रहीतुमशक्तस्तदा अस्मिन् देशे को ग्रहीता ?" | एवं ब्रुवन्तो गच्छन्ति । अस्मिन्नवसरे शालिभद्रमाता भद्रा दासीवृन्दपरिवृता गवाक्षे स्थिता नगराश्वर्य पश्यति। अथ तेषां व्यापारिणां वचनानि श्रुत्वा तया दासी प्रत्युक्तम्'याहि सत्वरम्, एते परदेशीया व्यापारिणो गच्छन्ति तान् अत्रानय' । इति भद्रादेशं लब्ध्वा तया चेट्या सत्वरं तत्र गत्वा तेभ्यः प्रोक्तम्-'भो व्यापारिणः ! मम स्वामिनी आमन्त्रयति, अतस्तत्रागम्यताम्' । तत्रैको वाचालो वक्तुं लग्नः-'किमर्थं तव स्वामिनी आह्वयति ?, वयं तत्रागत्य किं कुर्मः ? | अस्मदीयवस्तुनः प्रजापतिरपि ग्रहीतुमशक्तस्तदा त्वदीया जरती किं ग्रहीष्यति?' चेटी प्राह -“भवत्सदृशा अनेके व्यापारिणोऽस्मत्स्वामिन्या मन्दिरे आगता आगच्छन्ति च, ते सर्वेऽपि स्वस्वभाग्यानुसारेण लाभं लात्वा गच्छन्ति, न कोऽपि रिक्तो गच्छति। त्वं तु कोऽप्यभिनवो दृश्यसे, यतो व्यापारगतिं न वेत्सि | अनेकान् दर्शयेत् तदा कोऽपि ग्राहको मिलति, परम् अदर्शने तु न कोऽपि मिलति" | तदाऽन्येनोक्तम्-'किमर्थ प्रलपसिन ?, वयं व्यापारिणः, शतशो जना वस्तु शतकृत्वः पश्यन्ति, तदा कोऽपि ग्रहीता भवति, तत्र को रोषः ? | चलाऽये दासि ! तव स्वामिन्याः पार्श्वे वयमागच्छामः' । इत्युक्त्वा ते दासियुता भद्रागृहमागताः।मन्दिरान्तः प्रविष्टा इतस्ततः स्वर्णरूप्य-रत्नमयानि गृहशोभाकारकाणि तोरण-शालभझिकादीनि दृष्ट्वा विस्मयमापन्नाः- किमदं नरमन्दिरं वा देवमन्दिरम् ?, १. येत्रमान् रत्नकम्बलान् ग्रहीष्यन्ति प्र.१२. अनेकेषां दर्शयतां प्र. ।
॥३४८॥
Jan Education
For Personal & Private Use Only
Miw.sainelibrary.org