________________
श्रीधन्य
चरित्रम् |
नवमः पल्लव:
॥३४७॥
अथ नवमः पल्लवः - अथैकदा राजगृहे नगरे केऽपि वणिजो नेपालदेशतो नेपालदेशोद्भवान् लक्षमूल्यान् रत्नकम्बलान् लात्वा विक्रयकरणार्थमागताः। 'राजभोग्य वस्तु' इति 'ज्ञात्वा श्रेणिकक्षोणिपालाय नत्वा तस्मै रत्नकम्बला दर्शिताः विज्ञप्तं च - "स्वामिन् ! इमे रत्नकम्बला ऋतुत्रयेऽपि भोग्यतामायान्ति । तद्यथा-'वर्षाकाले अस्य कम्बलस्य तन्तवः परम्परम् अतीव सम्मिलिता भवन्ति, तेन वर्षाजलम् उपरि निपत्य रभूमौ पतति, परं शरीरं रोममात्रं नार्दीभवति, कम्बलः स्वयमपि च कमलपत्रमिव निरुपलेपो भवति । तथा शीतकाले हेमन्ते उष्णतां भजति, एकेनैव प्रावृतेन क्षणमात्रे शरीरे प्रस्वदः क्षरति । तथा उष्णकाले ग्रीष्मे शीतलत्वमाप्नोति, यदा देहे प्रावृत्तो भवति तदा चन्दनलेपनवद् देहे शीतलत्वं भवति । मलिने तु जाते अग्नौ प्रक्षिप्तो जातहाटकवत् शुद्धो निर्मलो भवति, अतो वस्त्रेषु रत्नत्वख्यातिर्जाता"। राज्ञा प्रोक्तम्-'किमेषांमूल्यम् ?' तैः प्रोक्तम्-'एकैकस्य सपादलक्षं भवति' एवं वणिजां मुखाद् मूल्यं श्रुत्वा विस्मितमानसो राजा प्राह-"भो भो वैदेशिकाः ! भूरिमूल्यान् अमून् कम्बलान् वयं तु न लास्यामः, यतः परिधीयमानः कम्बल आभीरवेषशोभां ददाति, उत्तमजातीयानां कम्बलप्रावरणं न हि युक्तम् । गुणांस्तुयोजनाति स एव जानाति, परम् अस्य परिधाने सर्वे जनास्तुच्छजातित्वमेव प्रमाणीकुर्वन्ति, अतोऽलमस्तु एषां ग्रहणेन । किच, राज्ये स्वर्णकोटिभिर्गजाऽश्व-नर-रत्नानां संग्रहः सङ्ग्रामे विजयं दत्ते, राज्यं च रक्षतिः, परं कम्बलाः किम्बला: ?, न किञ्चिदित्यर्थः" | इति क्षोणिपतेर्वाक्यं श्रुत्वा |
१. राजगृहपते राजगृहे यपुः इत्यधिकः पाठः प्र. । २. हलकयित्वा' इत्यधिकः पाठः प्र. । ३. शरीरस्पर्शमात्रं प्र. ।
॥३४७॥
Jain Education
For Personal & Private Use Only
ww.iainelibrary.org