________________
श्रीधन्यचरित्रम्
अष्टमः
पल्लवः
तथा पुरा याभिः प्रातिवेश्मिकीभिः पुरन्ध्रीभिरखण्डनिष्कम्पाऽनुकम्पाऽध्यवसायतः शिशोर्दुःखं खण्डयितुं दुग्ध-तण्डुलखण्डादिकं दत्तम्, ततो पुनर्बालेन साधवे दीयमानं दृष्ट्वा चाऽनुमोदितम्-"अहो ! अस्य बालस्य कीदृशी दानरुचिः ! यतोऽतिदुष्करतया लब्धामपि क्षैरेयीम् अखण्डधारया ददाति, धन्योऽयं बालः" इति परस्परमनुमोदितं, परं बालस्य मातुरग्रे नोक्तं ता धन्यस्याऽष्टावपि एताः श्रियां पदं पत्न्योऽभवन् । तथा प्राच्यभवेऽनया विभवाढ्यया सुभद्रया रोषवशाया निजप्रियसखी .'रे दासि ! मृत्तिकां वह' इत्याक्रोशिता, तस्य कर्मणो विपाकेनेह शालिभद्रभगिन्याऽपि मृद्वहनदुःखं भुक्तम्, यतो नाऽभुक्तं कर्म | क्षीयते अन्यैरप्युक्तम् --
"इतैकनवते कल्पेशक्त्या मे पुरुषो हतः। तत्कर्मणो विपाकेन पादे विद्रोऽस्मि भिक्षवः ||१||
एवं गुरुवचनं श्रुत्वा जातसंवेगाः केऽपि भव्या वेगाच्चारित्रमाश्रयन, केऽपि गृहिधर्मम् । अपरैः सम्यक्त्वमङ्गीकृतम्। अन्य रात्रिभोजनं त्यक्तं, कैश्चिच्च अभक्ष्यं वर्जितम्। अन्यैस्तु ब्रह्मचर्यं स्वीकृतम्। एवं देशनाऽतिफलव जाता, यतो दृढमिथ्यात्ववतामग्रे धर्मदेशनादानं विलापतुल्यं ज्ञेयम् । उक्तं च ---
"अईयअत्थे कहिए विलावो, असंपहारे कहिए विलावो। वक्खित्तचित्ते कहिए विलावो, बहकसीसे कहिए विलावो" ||२||
॥३४५॥
१. अतीतताऽर्थे कथिते विलापः असंप्रहारे कथिते विलापः । व्यक्षिप्तचित्ते कथिते विलापो, बहुकुशिष्ये कथिते विलापः ।।१।।
JainEducation internauorial
For Personal & Private Use Only
www.jainelibrary.org