________________
अष्टमः
चरित्रम्
पल्लवः
दानवासनाऽनुकूलाः संजाताः । परस्परं च मन्त्रयन्ति-"अहो! अयं मुनिर्दूरवनाद् आगतोऽस्ति। निदाघमध्याह्ने उत्तप्तवालुकायां श्रीधन्य-1...| कथम् अतिदूरग्रामान्तर्यास्यति ? तत्रापि प्रतिगृहं भ्रमणेन चेद् निर्दूषणं मेलिष्यति तदाऽस्य ग्राह्यं भविष्यति, नान्यथा । तस्माद्
आत्मीयपार्श्वे यत् शम्बलमस्ति तद्दीयते चेत् तदा वरतरम्' एवं त्रयोऽपि विचार्य विनयेन मुनिमाहूय तच्छम्बलं सकलं मुनये ददुः । मुनिरपिशुद्धमाहारं ज्ञात्वा, गृहीत्वा, धर्मलाभाशिष दत्त्वा स्वस्थानं गतः। तेषां त्रयाणां तु सायं यावद्दारुग्रहणप्रयासक्लेशेन |
प्रातर्भुक्तं तु सर्वं जीर्णम्, पुनः प्रबला क्षुद्वेदना प्रादुर्भूता । ततस्ते परस्परं पृच्छन्ति-'भोः किञ्चित् खाद्यं विद्यते नवा ?' | तदा ॥३४४॥
एकेनोक्तम् -'खाद्यं तु मुनये सर्वं दत्तम् । ततः क्षुधितजठरा एव सर्वेऽपि सायं दारूणि संगृह्य स्वस्वगृहमागताः । तत्रापि नव्यमाहारकरणं विना किम् अद्युः ?, ततस्त्रयोऽपि अनुतापपराः संजाता:-"अहो ! मुनिदानफलम् अस्माकमिहैव संजातं, यतोऽद्य साम्प्रतं यावद् मुनिदानप्रभावात् क्षुधया म्रियामहे स्म!, न ज्ञायतेऽग्रे तु किं भविष्यति? । हा हा ! वयमनेन साधुना मुग्धा वञ्चिताः । तत्समये त्रयाणां मध्यादैकस्यापि बुद्धिर्नोत्पन्ना यत् प्रबलक्षुधायां लग्नाया किं भोक्ष्यामहे ? अस्य तु मुनेर्नित्यं तपःकणशीलस्य नित्याऽभ्यासवशाद् एकाद्यधिकदिने जाते न किमपि क्षीयते, अनभ्यासकानाम् अस्माकं पुनर्महदुःखं संजातम् ! । हस्तेनोदरं संमर्च शूलमुत्पादितं, कोऽस्मादृशो मूर्यो भवेद् यो गृहं प्रज्वाल्य तीर्थं कुर्यात् ?" । एवं चतुर्वेलं दानं दत्त्वाऽपि सत्त्वविवर्जितैस्तैः पश्चात्तापेन 'रिक्तफलं कृतम् । धनसार! ते त्रयोऽप्यायुःसमाप्तिकाले मृत्वा भवतः सुताः धनसारविवर्जिता अभवन् । यद् दानं दत्त्वाऽपि पश्चात्तापादिदोषदूषिता अभवन् तत इहाऽसकृत, श्रियं नीता अपि निःस्वाः संजाताः, परं सर्वार्थसिद्धिकृतो दानधर्मस्य दूषितस्यापि मूलतो नाशो नैव भवेद् इति धन्येन सह संयुक्तानामेषां श्रीः स्थिरा भवति।
१. तुच्छ फलं । २. धनस्य सारस्तेन रहिताः ।
॥३४४॥
in Education International
For Personal & Private Use Only
www.jainelibrary.org