________________
श्रीधन्य
चरित्रम्
॥ ३४३ ॥
एवं पुनः पुनरनुमाद्ये तत्पुण्यमनन्तगुणं व्यधात् । इत्येवं प्रमो तत्र स्थितः स्थालीलेहनं करोति तावता प्रातिवेश्मिकगृहाद् माता आगता । लिहन्तं बालं दृष्ट्वा - "अहो ! मम बालकेन स्थालीभृतं पासयं जग्धं, परम् अद्यापि तृप्तिर्न जाता ! नित्यं मम पुत्र एतावतीं क्षुधां सहते” । एवं क्षुधितं ज्ञात्वा पुनः पायसं पर्यवेषयत्। परं स बालो भोजनादपि दत्तं बह्वमन्यत, यथा धनी व्यापार्यमाणादप्यर्थाद् वृद्धिन्यस्तं बहु मन्यते । ततो बालोऽतिबहुमानपूर्वकदानाऽनुमोदनात् शर्महेतुतीव्ररसयुक्तं भोगफलं कर्म निबद्धवान् । तस्य च | बालस्याऽतिमादकाहारभोजनाद् अजीर्णं समुत्पन्नम्, तेनाऽजीर्णदोषेण विसूचिका जाता, तया विसूचिकया पीडितोऽपि तत्समये मुनिदानं स्मरन् मृत्वा त्वत्सुतोऽयं धन्योऽजनि । मुनिदानप्रभावेणासौ यशसां सहसाम् अद्भुतानां च सम्पदां क्रीडामन्दिरं संजातः । यतः सुक्षेत्रे उप्तं धान्यं शतगुणं भवति, पात्रे उप्तं तु बीजं वटबीजाद् वटवद् अनन्तगुणं भवति ।
अथ भवान् त्रयाणाम् अस्याऽग्रजानां कृतकर्मपरिणामवैचित्र्यं प्राग्भवं च शृणोतु । तत्र धनसारादयोऽनिर्वचनीयाऽसम्भाव्यकर्मविपाकं श्रुत्वा चमत्कृतचित्ताः सप्रणामं 'तहत्ति' इति शब्दं ब्रुवाणा अञ्जलिं कृत्वा श्रृण्वन्ति । गुरुराह-‘'एकस्मिन् सुग्रामनामनि ग्रामे आयन्नासन्नधामानः क्षयगतद्रव्याः कुलपुत्रकास्त्रयो वयस्याः परिवसन्ति । ते त्रयोऽपि धनाऽभावेन अन्यव्यापाराऽलाभाद् वनगतदारुभिराजीविकया निर्वाहं कुर्वन्ति । एकस्मिन् दिने त्रयोऽपि दारूणां ग्रहणाय स्वस्वगृहतो गृहीतशम्बलाः कम्बलप्रावरणा वनान्तरे गताः । तत्र तृतीयप्रहरारम्भसमये ग्रीष्मर्तुवर्त्तमानाऽतिनिदाघे तप्तभूमौ उग्ररविकिरर्णर्व्याकुलीकृतजने कोऽपि महानुभावः क्षमासारः क्षमासारमुनिः संसारवारणं मासक्षपणपारणं कर्तुं ग्रामान्तर्गमनाय तत्र वनान्तरे आगतः । ते त्रयोऽपि तपःशोषितसर्वाङ्गं अस्थिचर्माऽवशेषकायं मूर्तिमद्धर्मरूपं तं मुनिं दृष्ट्वा नटवैराग्यवत् सर्वे
Jain Education International
For Personal & Private Use Only
अष्टमः
पल्लवः
॥ ३४३ ॥
www.jainelibrary.org