________________
श्रीधन्यचरित्रम्
अष्टमः
पल्लव:
॥३४१॥
कदापि किमपि हठाद् मार्गणं करोति, यद् अहं ददामि तदेव भुत्तवा याति। अद्य किमपि दृष्ट्वा श्रुत्वा वाऽस्येच्छा समुत्पन्ना, अतो ममाग्रे आगत्य मार्गणं करोति। परम् अहं कीदृशा निर्भाग्यशेखरा?, यद् एकस्य अन्धयष्टितुल्यस्याऽस्य क्षैरेयीमात्रभोजनदोहदपूरणं कर्तुं न शक्नोमि, धिगस्तु ममावतारम्" । इति ध्यात्वा दीनवत् सम्मुखं च दृष्ट्वा रोदितुं प्रवृत्ताः । यतोऽबलानां बालानां च इच्छाऽपूर्ती रोदनमेव बलमुक्तम्। ततो रुदतीं मातरं दृष्ट्वा बालोऽपिरोदितुं प्रवृतः । अथ तयो रोदनं श्रुत्वा प्रातिवेश्मिक्य आययुः । ताभिः पृष्टम्-"युवां द्वौ कथं रुदिथः ?, दुःखं कथयतम्, यदि साध्यं भवेद् अस्मादृग्भिस्तदा स्फेटयामः" । तदा जरती सर्वं स्वकीयं दुःखमुक्त्वाऽकथयत्-'भाग्यवत्य : ! निर्भाग्याणाम् ईप्सिताऽपूर्ती रोदनमेवालम्बनम्' । एवं वृद्धावचः श्रुत्वा तदुःखदुःखितास्ता; प्राहु:-'वृद्धे! क्षैरेयीमात्राऽप्राप्तिदुःखेन मा रोदनं कुरु, एतत्तु अस्मत्साध्यं कार्यं जातमिव मन्यस्व' । तदैकया प्रोक्तम्-दुग्धं तु मद्गृहेऽस्ति, त्वं प्रयोजनयोग्यं गृहाण' । द्वितीयया प्राक्तम्-निर्मलाऽखण्डकलमशालितण्डुला मम गृहे सन्ति, अहं ददामि. त्वं गृहीत्वाऽस्य बालस्येच्छापूरणं कुरु' । इत्येवं तयोर्वचः श्रुत्वा तृतीययोदितम् - अतिशुभ्रमन्दाकिनीतटगतसिकताकल्पां खण्डाम् अहं ददामि, त्वं गृहाण, । चतुोक्तम्- अद्यैव तापितं स्वच्छं घृतं मम गृहे स्थितं,तदहं ददामि, त्वं गृहीत्वाऽस्य बालस्येच्छापूरणं कुरु' इत्येवं तासांवचांसि श्रुत्वा प्रसन्नचित्ता वृद्धाप्राह--'भो भाग्यवत्यः! इच्छापूरणे कल्पवल्लिकल्पानां भवतीनां कृपा संजाता त्वा मम मनोरथः सफलः संजात एव इत्यहं मन्ये' । ताभिरुक्तम्-सामग्री गृहीत्वा त्वरितं पायसं कुरु बालस्येच्छा पूरणं यथा बालः प्रसन्नचित्तो भवेत्' । अथ वृद्धया ताभ्यो दुग्धादिकां सामग्री लात्वा घृत-खण्डादिमिश्रिता क्षैरेयी प्रगुणीकृता, न हि पुत्रहितवत्सला माता सुतसमीहितपूरणाय विलम्बं कुरुते । ततो बालक आहूय भोजनायोपवेशितः, पायसेन च स्थालं संपूर्य बालकस्याग्रे ढौकितम् । बालकोऽपि तां क्षैरेयीमत्युष्णां ज्ञात्वा हस्तेन शीतलां कर्तुं
॥३४१॥
in Education
en
For Personal & Private Use Only
www.jainelibrary.org