SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ श्रीधन्यचरित्रम् ॥ ३४० ॥ Jain Education International पुत्रोऽस्ति स लोकानां वत्सरूपाणि आजीविकाकृते चारयति । एवम् अतिकष्टेन तौ निर्वाहं कुरुतः । ततः कस्मिंश्चित्पर्वदिवसे चारयित्वा वत्सरुपाण्यानयता प्रतिगृहं परमान्नभोजनं निष्पाद्यमानं शिशुव्रजैश्च भुज्यमानं सस्पृहेणामुना बालेन दृष्टम् । | तस्याऽङ्गणस्थितस्य बालस्य वरभक्ष्यनिरीक्षणाद् भक्ष्यकारशुन इव दंष्ट्राणां गलनमासीत् । अथ स्वसवगृहतो भोजनं कृत्वा निर्गता बालाः परस्परं वक्तु लग्नाः- 'भो अमुक ! त्वया किं जग्धम् ?' । तेनोक्तम्-'क्षैरेयी' । अन्येनोक्तम्- ́ अद्य अमुकं पर्व वर्तते, तेन | क्षैरेयी एव भुज्यते, नान्यत्' ततः केनापि डिम्भेन वृद्धायाः पुत्रायोक्तम्-त्वया किं भक्षितम् ? '। तेनोक्तम्- 'मया पर्युषितं घृष्टिप्रमुखं | यत् तद् भक्षितम्' । ततो डिम्भा हसितुं प्रवृत्ताः-'अद्य क्षैरेयीं विना कथं भवति ? । वृद्धायाः सुतेनोक्तम् -'मम मातृकया यद् दत्तं तद्भुक्तम्' । तदा केनाप्युक्तम्- 'याहि मातृपार्श्वे कथय- क्षैरेयीभोजनं देहि, अद्य पर्वदिवसोऽस्ति' । इत्येवं डिम्भानां वार्तां श्रुत्वा | जातपायसभोजनमनाः स्वगृहे गत्वा मातरं प्राह- 'हे मातः सुतवत्सले! घृत-खण्डा-दियुतं पायसभोजनं देहि, । सा प्राह-'हे वत्स ? निर्धनस्य ते पायसं कथं स्यात् ?' । बालः प्राह- 'हे मातः ! यथा तथाऽवश्यं देहि । इति पुत्रवचः श्रुत्वा वृद्धा चिन्तयति - "शिशोः सदसज्ज्ञानं न भवति । शास्त्रेऽप्युक्तम् 'बालको दुर्जन' चौरो "वैद्यो "विप्रश्च' पुत्रिका | "अर्थी 'नृपोऽतिथिर्वेश्या" न विदुःसहसद्दशाम् ||१|| पुत्र ! आत्मीयगृहे उदरपूर्णं भोजनं तदेव पायसम् । निर्धनानां वाञ्छितं कुतो भवति ?" । बालः प्राह- 'अद्य पर्वदिवसे | पायसं विनाऽन्यत्खाद्यं न भवति, अतः कथमपि पायसं देहि' । वृद्धा चिन्तयति - "अहो ! ममोत्कृष्टः पापोदयः अयं शिशुर्न For Personal & Private Use Only अष्टमः पल्लवः ॥ ३४० ॥ www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy