SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य अष्टमः चरित्रम् पल्लवः ॥३३९॥ भवति तथा रूप्यं लजे निमज्जति, रूप्यपात्रं तु तरति, तथा लक्ष्मीरुपकारतया व्ययिता संसारसागरोत्तारणे नौका भवति । लक्ष्म्या दानादिव्ययकरणे उपकारः पुण्यं च भवतीति जिनाज्ञा । वीतरागसेवातोऽपि जिनाज्ञापालनं वरम् । यतः सेवायाः फलं स्वर्गः, आज्ञायास्तु मुक्तिरेव । तस्माजिनाज्ञापूर्वकं यथाशक्ति दानादिधर्मे प्रयत्नः कर्तव्य इति हार्दम्"। इत्युक्त्वा विरते मुनीन्द्र धनसारश्रेष्ठी शिरसि आरोपिताञ्जलिः सन् हृद्गताऽनेकान् संशयान् प्रष्टुं लग्न:-"भगवन् ! केन कर्मणा ममायं धन्यः पुत्रोऽद्भुतानां सर्वासां सम्पदाम् एकस्थानं समभवत् ? । एते पुनर्ममात्मजा धनदत्ताधास्त्रयो विद्वांसोऽपि सम्पदं प्रापिता अपि पुनः पुनर्निःस्वा कथं संजाताः? | धन्येन सह एषां संयोगे वियोगे च, वह्रिना सह संयोगे वियोगे च अयसां प्रभा इव क्रमेण रमा अभवन् नाऽभवंश्च कथम् ? । 'सतीषु प्राप्तरेखा एषा शालिभद्रस्वसाऽपि शीतातपादिवेदनां सहमाना किमु मृदम् अवहत्?"एवं धनसारेण प्रश्श्रेषु कृतेषुवाचंयमाधीशःशुचिताऽञ्चितांवाचं प्रोवाच-'भो भद्र! कर्मणां गतिर्विचित्राऽनिर्वचनीया च । कर्मणा किं किं न भवति ? । जीवानां गतिं, कर्मणां परिणतिं, पुद्गलपर्यायाणाम् आविर्भाव-तिरोभावादिशक्तिं च जिनं जिनागमं वा मुक्त्वा को ज्ञातुं समर्थः ? । अत एतेषां प्राग्भवान् अवहितः सन् श्रृणोतु - ||धन्यादीनां प्राम्भवाः॥ "अत्रैव भरते प्रतिष्ठानपुरे काचिद् विश्वदारिद्यसत्त्वैर्घटिता इव दासीव दुःखिता स्थविरा आसीत् । सा स्ववृत्तये परगेहेषु पेषण-खण्डन-भूमिमण्डन-जलाहरणादिक्रियां कुर्वती देहेऽतिदुःखं सहते। अस्या वृद्धाया निर्मलाशयो विनयी नयी दानरुचिः १. अतो जिनाज्ञया लक्ष्मीव्ययकरणे उपकारत्वं च भजति, यतो प्र.। २. यथाशक्त्या प्र.। ३. तथा शालिभद्रस्य साप्येषा सतीनां प्राप्तरेखा कथं | मृद्वहनं शीततावादि सहनं केन कर्मणाऽभवत् प्र. । ॥३३९॥ in Education remona For Personal & Private Use Only www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy