SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ श्रीधन्यचरित्रम् अष्टमः पल्लवः ॥३३७॥ स्थितस्तावता पूर्वदिगुद्यानपालकेन वर्धापनिका दत्ता-"स्वामिन् ! अद्य सकलसुरा-ऽसुर-नर-खेचरनिवहसंसेव्यमानचरणकँजैः श्रीमत्तीर्थङ्करैः स्वचरणन्यासैः पूर्वदिगुद्यानम् अलङ्कृतम् । सुरकृतवप्रत्रयादिशोभया अशोकतरुशोभया भामण्डलमयूखशोभया च गतोपमानम् आश्चर्यमनिर्वचनीयं विभ्राजते। यः पश्यति स एव जानाति, परं न कोऽपि वक्तुं शक्नोति। तन्मध्ये सिंहासन-स्थितो भगवान् पीयूषनाविणीं देशनांदत्ते, यस्याः श्रवणमात्रेण यत्सुखमनुभूयते तत्तु न भूतं न भविष्यति'। इत्थम् उद्यानपालकवचः श्रुत्वा सूर्योदये चक्रवाक इव हर्षितो भूत्वा, आजीविकापूरणाहँ प्रीतिदानं दत्त्वा, चिन्तितमनोरथस्य सद्यः सफलभवनेन आत्मानं धन्यं मन्यमानो रोमाञ्चकञ्चुकः सर्वदा वन्दितुं गतः । जिनदर्शने दशाऽभिगमसत्यापनपूर्वकं जिनमभिवन्द्य "अद्याऽभवत् सफलता नयनद्रयस्य, देव! त्वदीयचरणाम्बुजवीक्षणेन । अद्य त्रिलोकतिलक! प्रतिभासते मे,संसारवारिधिरयं चुलुकप्रमाणः" ||२|| __ इत्यादिस्तुतिं च कृत्वा यथोचितस्थाने स्थितः, अञ्जलिं कृत्वा सम्मुखः सन् देशनां च श्रोतुं लग्नः । प्रभुणापि मिथ्यात्वोग्रभुजङ्गविषोत्तारणनागदमनी कामदावानलविध्यापनैककादम्बिनी अनादिभवभ्रान्तिमेदिनी सह जानन्द१प्रकाशिनी ईदृशी धर्मदेशना दत्ता। राजादिना अतितृषितेनाऽमृतपानमिव आकण्ठं कर्णपुटै त्वा पीता, तेनाऽनादिकषायक्लिन्नता नष्टा, अत्यद्भुतो वैराग्यरङ्गश्च २प्रकटीभूतः । एव शम-संवेग-निर्वेदादिगुणोल्लासेनोल्लासितो राजा सानन्दमुत्थाय हस्तौ योजयित्वा प्राह-"प्रभो! पुरापि प्रभुणा महानन्दपुरप्रापणाय तुरङ्गगतिकल्पः श्राद्धधर्मो ग्राहितः । अधुना तु भवत्कृपया भवनिर्वेदो जातः, १. नन्दस्वरूप प्र.। २. प्रकटितः तेन प्र.। ॥३३७|| www.sainelibrary.org For Personal & Private Use Only
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy