________________
श्रीधन्य
चरित्रम्
॥३३६॥
स्वसुखनिरपेक्षतया कुर्वन्ति ते 'उदितगणनायां गणनीया इह लोके लज्जां प्रतिष्ठां मानं महत्त्वं च संप्राप्य परस्त्र महर्द्धिकदेवेषूत्पद्यन्ते। ततोऽचिरेण कालेन संसारान्तं कुर्वन्ति इह जगति ते पुरुषा विरलाः स्तोका भोगदेवसदृशा ये छलनगतिच्छेकया लक्ष्म्या न
अष्टमः च्छलिताः । तैः पुनस्त्याग-भोग-विलासो-पकारैर्लक्ष्मीरसं चर्वित्वा पश्चाद् निर्माल्येति विगोप्य च त्यक्ता तेषां गुणा अद्यापि
पल्लवः गीयन्ते । तस्माद् हे कुमार ! यावद् अनर्थदानदक्षा लक्ष्मीनं त्यजति तावद् अग्रत एव व्यज्यमानायां महत्त्वं प्राप्यते। ये पुनरातो लक्ष्म्या त्यक्तास्ते पुरुषा लघुत्वमिह लोके, पर चाऽतिलघुतमत्वं प्राप्नुवन्ति, यद् वक्तुमप्यशक्यम् । अतो यदि निराबाधसुखेच्छाऽस्ति चेत् तदा सर्वाऽनर्थमूलां राज्यादिपरभावमूर्छा त्यक्त्वा संयमे रतिं कुरुष्व" । इति केवलिनो देशनां श्रुत्वा सद्यस्त्यक्तुम् अशक्यत्वाद् आत्मनः परिकर्मकरणार्थं श्रावकधर्मं गृहीत्वाऽर्हन्तं च नत्वा केरलो गृहं गतः । पुनः बहुकालं यावच्च सम्यक्त्वयुतं श्रावकधर्मं कषपट्टे कषित्वा संयमसम्मुखः पाश्चात्ययामिन्यां धर्मजागरिकायां परिचिन्तयति "पुरा श्रीजिनैरुपदेशद्वारा जागरितेनापि संयमाऽशक्तेन मया 'गृहिधर्मो गृहीतः । अद्य यावच्च यथाशक्ति व्रतानि पालितानि। इन्द्रियसुखं तु यथेच्छं भुक्तं, किमपि न्यूनं नास्ति । अतो यदि मम कुशलानुबन्धिपुण्यम् उदयेत् तदा ग्रामा-ऽऽकर-नगर-खेट-खर्वटमण्डप-द्रोणप्रमुखेषु विहरन् जगच्चक्षुः श्रीजिनेन्द्र इह समभ्येति तदा चाऽहं पूर्णमनोरथो महाभक्त्या श्रीजिनं नत्वा संयमप्रार्थना करोमि । स तु करुणानिधिः सद्यः संयम दास्यति । ततः संयमं प्राप्य ईदृशेनोल्लासेन संयमाराधनं करोमि यथा पुनर्भवसङ्कटे पतनं न भवेत्" । एवं भावयतः प्रभातसमयो जातः । ततः शयनादुत्थाय प्राभातिकानि कृत्यानि कृत्वा आस्थानसभायां यावदागत्य
१. उदितोदित प्र.। २. रसचर्वणया निरसीकृत्य निर्माल्य इति विगोप्य त्यजनच्छलेन छलिता प्र.। ३. सपादविश्वापणं गृहिधर्म गृहीत्वा |3||३३६॥ गतः अद्य यावत् प्र.। ४. यथेच्छया प्र.। ५। ददाति प्र.।
Jain Education remational
For Personal & Private Use Only
www.jainelibrary.org