SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ श्रीधन्यचरित्रम् अष्टमः पल्लव: ॥३३५॥ युवतौ चाऽत्यन्तप्रतिबन्धो न कर्तव्यः । शौचप्रतिबन्धः सुचिवोदः श्रिया रोषेण त्यक्तः, अशुच्याकरस्य मातङ्गस्य सेवनोपासनयाऽपि तस्य दारिद्यं न गतम्, इह परत्र च दुःखितो जातः । द्वितीयेन श्रीदेवेन त्रिविधप्रत्ययेन पूजिता- अर्चितापि लक्ष्मीस्तं विमुच्य गता, इति सोऽपि लक्ष्म्या विप्रतारितः । तृतीयः सञ्चयशीलः तेन महासंरक्षणानुबन्धिध्यानेन महायत्नेन रक्षितापि लक्ष्मीर्विमुखा रुष्टा दुर्गतिकारणं जाता । चतुर्थो भोगदेवः, स तु दानं ददत् , परोपकारं कुर्वन् , यथेच्छमुपभोगं च कुर्वन् आसीत् तथापि तस्योपरि लक्ष्मीः प्रसन्नतां न प्राप्ता, प्रत्युत सेवनया श्रान्ता औदासीन्यं वक्तुं लग्ना। तस्माद् लक्ष्मीः स्वभावेन कस्यापि प्रतिबन्धं न करोति, केवलं पूर्वकृतपुण्यबन्धं यावत् तिष्ठति, न तु परतः । अनाकर्णितजिनागमतत्त्वाः सर्वेऽपि संसारिणो जीवा लक्ष्म्याः प्रतिबन्धसङ्कटे पतिताः सन्ति,यथैतेच सुचिवोदादयस्त्रयोऽपिजीवाः । संसारावटे पतितास्तथा दुःखसमुद्रे संसारे पतन्ति भ्राम्यन्ति च। सर्वे संसारिणो जीवाः प्रतिक्षणं लक्ष्म्यर्थं धावन्ति। अज्जं कल्लं परं परारिं' इत्याद्याशाकर्मणा परिकर्मिता लक्ष्म्याः प्रतिबन्धं न मुञ्चन्ति । लक्ष्मीस्तु कृतपुण्यं पुरुषं विना न कस्यापि सङ्गं करोति, यथा पणाङ्गना धनिनं विना नाऽन्यमिच्छति। एतेषां चतुर्णां मध्ये भोगदेव एक श्लाध्यतमः, येन यथेच्छं त्याग-भोगविलासादिना लक्ष्म्याः फलं लात्वा पुनः पुण्यबले विद्यमानेऽपि तृणवत् | त्यक्ता । यया सर्वे जीवाच्छलिताः सा लक्ष्मीर्येन च्छलिता, अतः श्लाघ्यतमः । हे केरलकुमार ! यो विद्यमानेऽपि धने हानिभयाद् | न भुनक्ति न कदाति, नोचितस्थाने व्ययति, न किमप्युपकारकार्यं ख्यातिकार्यं वा करोति स सञ्चयशीलवद् भवति; भवे भवे च | दारिद्यादिदुःखेन दुःखितः परिभ्राम्यति । ये इह लोके सञ्चयशीलसदृशाः पुरुषा दान-भोगादिपराङ्मुखास्ते करिकर्णचपलया लक्ष्म्या छलिताश्चतुर्गतिचारकेषु पतिता दुःखमनुभवन्ति । ये पुनः सत्पुरुषा लक्ष्मीप्राप्त्यनुरूपं दानं भोगं च कुर्वन्ति परोपकारं च ॥३३५॥ Jain Education remational For Personal & Private Use Only www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy