________________
श्रीधन्य
चरित्रम्
अष्टमः
पल्लवः
गत्वा स्थितः । तदा गुरुणा यथाविधि पञ्चापि महाव्रतानि ग्राहितानि, रोहिणीकथासंभाषणपूर्विकां च शिक्षा दत्त्वा प्रमुदितः कृतः । एवं | भोगवत्यपि संयमं ग्राहयित्वा महत्तराऽऽर्यायै समर्पिता । 'इमां संयमप्रवीणां कुरु' इति कृत्वा महत्तराया निष्ठा कृता । अथ | भोगदेवमुनिर्विविधश्रुत-संयम-तपो-ध्यानादिभिर्निरतिचारं चारित्रं समाराध्याऽन्तेऽनशनं कृत्वा सर्वार्थसिद्धिविमाने | त्रयस्त्रिंशत्सागरोपमायुष्कः समुत्पन्नः । ततश्च्युत्वा विदेहे समुत्पन्नः । यथावसरे संयममाराध्य, घातिकर्मक्षयं कृत्वा, केवलज्ञानं
प्राप्याऽनेकान् भव्यान् प्रतिबोध्य, अन्तेऽनशनं कृत्वा, योगनिरोधे पञ्चहस्वाक्षरमात्रेण सकलकर्मक्षयं कृत्वा शिवं गमिष्यति । 7 भोगवत्यपि तथैव शिवं गमिष्यति।
.अथ श्रीदेवो लक्ष्म्या परिहतो, दरिद्रावस्थां प्राप्तो, द्रव्यं विना व्यापाराद्याजीविकोपायरहित उदरवृत्तिकरणार्थं परगृहे उच्चनीचकर्माणि कुर्वन्, तथा तथाऽऽजीविकां कुर्वन्नपि त्रिकालं लक्ष्म्याः पूजनं करोति। तदा लोका अवस्थाद्वयं दृष्ट्वा श्रीदेवं प्रति वदन्ति-'भोः श्रीदेव ! त्वया त्रिकरणशुद्धयाऽन्यदेवान् परित्यज्य त्रिकालं भक्तिभरेण या पूजिता-अर्चिता सा तव लक्ष्मीः क्व | गता ?. कथं तव साहाय्यं न करोति ? । पूर्वं तु त्वम् ऊर्ध्वभुजः सन् 'ममैका लक्ष्मीरेव देवता मान्या पूज्या, नाऽन्येषां देवानां नमस्कारमपि करोमि' इत्यकथयः" । एवम् एकेन उपहास्ये कृतेऽन्यो वक्तुं लग्नः-''भो भ्रातः ! त्वमेवं कथं वदसि ? । अस्योपरि तु लक्ष्म्या प्रसादः कृत एव यतोऽनेकव्यापारादिव्यग्रतया लक्ष्मी ध्यानेऽन्तरायं करोति, तस्माद् एतदन्तरायकृत् सर्वं हर्तव्यं यथा ममाऽविरहितम् अविलम्बितं स्मरणं कुर्यात्' । तस्मात् श्रीदेवी अस्योपरि प्रसन्ना एवास्ति, तया प्रसत्त्या सर्वं हृतम् ! | त्वं किं जानासि ?, अस्य परीक्षां करोति लक्ष्मीः, स्तोकदिनान्तरे धनवृष्टिवद् अस्य गृहे धनवृष्टिं करिष्यति!"। इत्यादि लोका उपहास्यं
Jain Education
1
For Personal & Private Use Only
Shiww.jainelibrary.org