________________
श्रीधन्यचरित्रम्
अष्टमः
पल्लवः
॥३३२॥
इति स्वजनादीनामुक्त्वा पुत्रं प्रति प्राह-"वत्स ! एते सर्वेऽपि आत्मीया हितचिन्तका आत्मीयपक्षतोषकाः सन्ति, अत एषामनुकूलत्वेन संदा प्रवर्तितव्यम्, न पुनः प्रातिकूल्येन। सदा दान-पुण्य-परोपकारपरायणेन भवितव्यम्। व्रत-नियमादिभिरात्मा शिक्षणीयः । यदा पुनरस्मदीयावस्था भवेत् तदा त्वयाऽपि अनया रीत्या भागवती दीक्षा ग्राह्या''। एवं सर्वान् समनुज्ञाप्य प्रवर्धमानपरिणामः शुभध्यानोल्लसन्मानसः शुभाध्यवसायवशाद मनोरथमालां करोति अहं प्रगे जन्म-जरा-मरणादिदुःखरहिताया मुक्तेरवन्ध्यकारणं सकलकल्याणैकभाजनं संयमं ग्रहीष्यामि, गृहीत्वा च विविधतपः-संयम-विनयादिना चारित्रमाराध्य संसारं निस्तरीष्यामि"। इति भावनां कुर्वद्शयनगृहे सुप्तोऽस्ति। अर्धरात्रौ गतायां महिलारुपधारिणी लक्ष्मी गदेवं प्रत्याह--"त्वयाऽहं यदृच्छया दत्ता, मुक्ता, विलसिता, अमुञ्चन्ती च मुक्ता । मत्तो विरक्तमनाः संयमैकरसिको जातः, अतोऽहं त्वया छलिता। मयाऽनेके जनाश्छलिताः परं त्वयाऽहं विप्रतारिता । भण, अधुना किं करोमि ?" | भोगदेवेनोक्तम्-'अधुना मम न किमपि कर्तव्यमस्ति, गच्छ ' यथेच्छम्' ततो गता सा । पूर्णे महोत्सवे आडम्बरपूर्वकं शिबिकारुढो भोगवत्या समं प्रशान्ताचार्यसमीपं गत्वा, गुरुदर्शने शिबिकां मुक्त्वा, हस्तौ योजयित्वा, गुरोरग्रे आगत्य, विधिपूर्वकं वन्दनां कृत्वा विज्ञप्तिं कर्तुं लग्नः-" हे कृपानिधे ! अहं रागद्वेष-प्रमादादिना परितोजन्म-जरा-मरण-शोकादिवहिषु दह्यमानान् लोकान् दृष्ट्वा संसारभयोद्विग्नमना रत्नकरण्डककल्पम् आत्मानं लात्वा नष्टो भवतां शरणमागतः, अतश्चातुर्गतिकदुःखविनाशनसमर्थं चारित्रं ददातु' । गुरुणोक्तम्-'भो देवानुप्रिय ! यथात्मनो हितं भवेत् तत् कुरु, मा कस्यापि प्रतिबन्धं विधेहि' । तत उत्तरपूर्वस्यां दिशि अशोकतरुतले गत्वा, आभरणालङ्कारादीन् विमुच्य, स्वयमेव पञ्चमुष्टिलुञ्चनच्छलेन पञ्च प्रमादान् शब्दादीन् पञ्च विषयान् वा उन्मूल्य पुनरपि गुरोरग्रे १. यथेच्छया प्र. । 'स्वयमेव' इत्यधिकः पाठः
|||३३२॥
Main Education in
For Personal & Private Use Only
KIw.iainelibrary.org