________________
श्रीधन्य
अष्टमः
अष्टमः
चरित्रम्
पल्लवः
॥३३०॥
एवं कियत्यपि गते काले एकदा रात्रौ सुखप्रसुप्तेन भोगदेवेन महिलायुगलस्य परस्परमालापः श्रुतः । तत्रैकया भणितम्-'त्वं का?' ततो द्वितीयया भणितम्-'अहं भोगदेवसार्थवाहस्य गृहलक्ष्मीरस्मि, । प्रथमया मणितम्-'तव कुशलं सुखं चाऽस्ति?' द्वितीयया भणितम्-"भगिनि ! नवनवभोगविलासकार्यासक्तेन भोगदेवेन व्याप्रियमाणाया स्वामिकार्याज्ञाधारिकायाः कर्मकर्या मम कुशलं सुखं च कुतो भवेत् ? ।प्रतिक्षणं तस्य दासीवईप्सितपूरणं कुर्वत्या अहोरात्रौ याति, न घटिकामात्रोऽपि विरामोऽस्ति। परं त्वं काऽसि ?"| प्रथमया भणितम् - 'अहं सञ्चयशीलसार्थवाहस्य गृहलक्ष्मीरस्मि' । भोगदेवलक्ष्म्योक्तम्--'तव सुखसंवासोऽस्ति? |तया भणितम्-'भगिनि! नरकान्धकारकूपवद्महान्धकारगर्तायां गोपिताया अदृष्टचन्द्र-सूर्यकरनिकराया वन्दिन्या इव तमो बहुलकारागारप्रक्षिप्ताया मम कुतः सुखसंवासः? । निरन्तरं निरोधदुःखदुःखिता दुःखेन वसामि। किञ्च त्वमपि दुःखिनी, तथापि मत्तस्त्वं सुखिनी । यतस्तव स्वामिना उत्साहेन दान- भोग-विलासादिषु कृतं लक्ष्मीव्ययं दृष्ट्वा लोकाः | संप्रवदन्ते-'धन्योऽयं श्रेष्ठिः धन्येयं लक्ष्मीः याऽनेकजीवान् दुःखात् समुद्धरति, नेत्रोत्सवं च पूरयति । अनया लक्ष्म्या वरतरं स्थानं गृहीतम्, एवं सर्वजनैस्तव श्लाघा क्रियते । मम तु स्वामिनस्त्यागभोगवर्जितां प्रवृत्तिं दृष्ट्वा लोका वदन्ति-'धिगस्तु इमं श्रेष्ठिनम्, धिगस्तु इमां लक्ष्मी, मलिनेयं लक्ष्मीर्या कस्यापि कार्ये नायाति दुष्टेयं लक्ष्मीनिष्फलां, अस्याः प्राप्तितोऽप्राप्तिर्वरतरा, अतोऽस्या नामग्रहणेऽपि दुष्टं किमप्यनुभूयते' । इत्यादिक्षतस्योपरि क्षारतुल्यं श्रोतुं न शक्नोमि । तव तदुःखं नास्ति, कर्णसुखं चास्ति'। एवं परस्परं तयोर्वार्ता श्रुत्वा भोगदेवेन चिन्तितम्-'अहो! द्वे अपिदुःखिते!। अस्याश्चपलेति सान्वर्थं नाम, यतोऽस्याः स्थिरीकरणे जगति न कोऽप्युपायोऽस्ति। एषा लक्ष्मीन शौचसाध्या,शौचं कुर्वतामपि नश्यति।नच भक्तिसाध्या, भक्तिं कुर्वतामपि याति । न च यत्नेन संचितापि स्थिरत्वमुपैति । अर्थात् पुण्याधीना अक्ष्मीरिति हार्दम् । तस्माद् यावत् पुण्यं क्षीणं न भवति
Jain Education Intel
For Personal & Private Use Only
Mw.jainelibrary.org