________________
श्रीधन्य
चरित्रम्
अष्टमः पल्लवः
॥३२८॥
"आप बडाईजे करेते नर लघुआ हुंत। फीकां लागें चटकमें ज्युंस्त्री कुच आप ग्रहंत" ||१||
शास्त्रे हि स्वगुण-परदोषयोर्वर्णनं सर्वथैव त्याज्यमित्युक्तम् । यतस्तव पिता सञ्चयशीलोऽदत्तदानोऽभुक्तधनौघोऽनेकानि पापस्थानानि समाचर्य धनसञ्चयम् अकरोत्। ततः परं धनसंरक्षणानुबन्धिध्यानैकतान आर्तध्यानेनायुरपवर्त्य मृत्वा चाऽस्मिन्नेव पुरे नागिलनाम्न आजन्मदरिद्रिणो गृहे पुत्रत्वेनोत्पन्नोऽस्ति । अकृतपुण्यत्वेन तत्रापि जननीजनकयोरनिष्टोसंप्राप्तौदर पूर्णाऽन्नभोजनोऽतिदुःखेन कालं गमयति । यदुक्तं नीतौ धर्मशास्त्रे च ---
"सपुण्ण दिनु न धणिय धणु, गड्डहि गोचिय मुक्कं। .
न वि परलोओ न इह भवु, दुहिं विप्पयारइ चक्खु" ॥१|| तथा
"'कम्मयरो घरस्सामी, धरस्सामी तस्स चेव कम्मयरो।
को सद्दहे खुएयं अच्चो ! विहिविलसियं विसमं?" ||१|| एवं साधुना धनदत्ताय हित शिक्षा दत्ता । तां श्रुत्वा धनसुन्दरी पत्युः पापगर्तायां पतितत्वेन अति गाढस्वरेण रोदनं कर्तु
॥३२८॥
१. पूर्ति कृदन्न प्र.। २. स्वपुण्याय दत्तं न गाढं धनं, गर्तेषु गोपयित्वा मुक्तं । नापि पर लोकः नेह भवो, द्वाभ्यामपिप्रतारयति चक्षुः ।। ३. कर्मकरोगृहस्वामी, गृहस्वामी तस्य चैव कर्मकरः । कः श्रद्धेजखलुएतद् अहोविधि-विलसितं विसमम् ?|
in Education Interracons
For Personal & Private Use Only
www.jainelibrary.org