________________
श्रीधन्यचरित्रम्
अष्टमः पल्लवः
॥३२६॥
परं नष्टं मम दुर्गतत्वम्' इत्यादि पुनः पुनरनुमोदयता पुण्यं पुष्टतां नीतम्। ततः श्रेष्ठिगृहे धनसुन्दरीपक्षीयसम्बन्धिगृहे विवाहोत्सवे सति भोजनार्थं निमन्त्रणमागतम्, 'स्वगोत्रीयस्यापि गृहे विवाहत्सवे सति भोजनार्थं निमन्त्रणमागतम् । ततः श्रेष्ठीप्रमुखास्तु स्वकीयपक्षे गन्तुमुद्यताः । तदा धनसुन्दर्योक्तम्-"अहं तु पितृपक्षीयसम्बन्धिगृहे यास्यामि, परं तस्य गृहं दूरतरमस्ति, अतो दुर्गतपताकं सह नीत्वा गमिष्यामि" । तच्छुत्वा श्रेष्ठिनाऽनुज्ञा दत्ता । ततः सा दुर्गतपताकेन सह तस्य गृहे गता । ततस्तेन सम्बन्धिना"बहुभिर्दिनैरागता'' इत्युक्त्वाऽत्यादरभक्त्या भोजनार्थमुपवेशिता। उक्तं च तेन सम्बन्धिना-"भगिनि! अस्य त्वया सहाऽऽयातस्य मनुष्यस्याज्ञां कुरु; यतोऽयं तवाज्ञया जेमति, नान्यथा। मम गृहे तु किमपि न्यूनं न, सहस्रशो जेमन्ति, दिवसोऽपि बहुतरश्चटितः, दूरादयं त्वया सार्धमागतः, तस्य भोजनं विना गन्तुंन ददामि'।ततोधनसुन्दर्याऽपिध्यातम्-'मया सार्धमागतस्य प्रयोजनं किं यदि क्षुधितो गृहं याति? | इति विचार्याऽऽज्ञा दत्ता-'सुखेन यथेच्छं भुक्ष्व' । ततो दुर्गतपताको भोजनार्थमुपविष्टः । गृहपतिनापि तस्या आज्ञाकारकं दृष्ट्वा प्रीत्याऽतिसरससुखभक्षिकादिभोजनं भोजितम् । दासेनाऽपि बहुदिनेप्सितं यथा रुचि भव्यं भोजनं प्राप्य चित्तप्रसत्त्याऽऽकण्ठभोजनं कृतम्। भोजनाऽनन्तरं ताम्बूलादिकमास्वाद्य पुनः श्रेष्ठिन्या सह गृहमागतः । तां गृहे मुक्त्वा स्वोटजे गतः , तत्र च दानधर्ममनुमोदयति । अथ भोजनम् अतिमात्रया भुक्तं तेन रात्रौ अजीर्णं जातम् । रात्रिप्रथमयामे गते विसूचिका जाता, तेन महत्या वेदनया पराभूतश्चिन्तयितुं लग्नो यद्-'इयं प्राणहरा वेदना उत्थिता प्राणं हरिष्यति' । इति निश्चित्य ध्यातं तेन-"अस्मिन् भवे मया केवलं परकीयसेवा कृता, तदुक्तकर्माणि कृत्वा पापमर्जितम् . सुकृतं न किमपि कृतं यत् सार्थे आयाति । एकवारमेव तावद् मुनये दानं दत्तं, नान्यत् किमपि पुण्यमुपार्जितम्। धन्यास्ते इभ्या ये नित्यं मुनिदानाय यतन्ते।
१. स्व स्वसुर पक्षीयस्यापि निमंत्रणान्यागतानि प्र.। २. एवं गृहपतेरनुज्ञाप्य सा. प्र. ।
Jain Education
For Personal & Private Use Only
Mww.jainelibrary.org