________________
श्रीधन्य
चरित्रम्
अष्टमः
पल्लवः
| इत्युक्त्वा स्नेहेन भव्यसुखाशिका भोजनमाना दत्ता। तां लात्वा स निर्गतः । मार्गे ताम् अत्यद्भुतां सुखाशिकां दृष्ट्वा चिन्तयितुं लग्नः-"अहो ! अद्य मम मनोरथपूरणावसरोऽस्ति, यतोऽयमाहारो निर्दूषणः प्रशस्तः शुद्धश्चाऽस्ति। परम् ईदृशं मम भाग्यं कुतो यद् अस्मिन्न वसरे साधुसंयोगो मिलेत् भक्त्याऽहं साधुभ्यो दद्याम, साधवश्च कृपां कृत्वा मया दत्तं गृह्णीयुः ईदृशं मार्गितमेघ वर्षणं कुतो भवेत् ?" । एवं चिन्तयन् मार्गे चलन् इतस्ततः पश्यन् देयदानाय व्याकुलो गच्छति तावता प्रबलपुण्ययोगेन उग्रतपस्वी पारणके गोचर्यार्थं नगरे भ्रमन् दृष्ट्वा चकोर इव, उन्नतमेघंच दृष्ट्वा मयूर इवाऽतिहर्षभरभारितहृदय उल्लसितरोमाञ्चकञ्चुकःशीघ्र शीधं साधुसमीपं गत्वा हस्तौ संयोज्य विज्ञप्तिं कर्तुं लग्नः- "स्वामिन् ! कृपानिधे ! मम वराकस्योपरि कृपां कृत्वाऽमुं शुद्धमाहारं गृह्णातु । शङ्कादिदोषरहितो भवतां ग्रहणयोग्योऽस्ति, अतः पात्रं प्रसार्य मां निस्तारयतु" । ततः साधुनाऽपि निर्दूषितमाहारं ज्ञात्वाऽत्युग्रभावं च दृष्ट्वा पात्रं प्रसारितम् । सोऽपि प्राप्तनिधान इवाऽतिहर्षभरभारितहृदयः सुखभक्षिकादिकं सर्वमेकहेलयैव दत्त्वा स्तुतिं कर्तुं लग्नः-"कृपानिधे! यूयं धन्याः, युष्मदीयाऽवतारो धन्यः धन्यं युष्मचरित्रम् । अद्य मम वराकस्योपरि महती कृपा कृता । तारितोऽहं संसारकूपाराद्, यतो मुनिदर्शनेन भवकोटिकृतं पापं नश्यति पुनरपि कृपा कर्तव्या'' इति स्तुत्वा नत्वा च परिपूर्णमनोरथो जातः । साधुरपिधर्मलाभाशिषं दत्त्वा पश्चाद्वलितः । दुर्गतपताकोऽपि पुनः पुनर्मुनिदानम् अनुमोदयन् गृहमागतः । तत्र च गृहकर्माणि कुर्वन्, पुलकितहृदयो मुनिदानं स्मरन्, आश्चर्यचकित इव रणरणयन, चिन्तितकार्यस्य सिद्ध्येव हर्षयन् चिन्तयति"अहो ! मम भाग्ययो गेनाऽचिन्तितम् असम्भावनीयं कीदृगू जातम् ?। एते निःस्पृहशिरोवतंसा मुनयो बहुभिर्महेभ्यर्भिक्षार्थं | निमन्त्रिताः कस्यापि गृहे गच्छन्ति परं न गृह्णन्ति, कस्यापि भाग्यवतो गृह्णन्ति, कस्यचित् सम्मुखमपि न पश्यन्ति । एतादृशैर्महद्भिरपि मम वराकत्य निमन्त्रणमात्रेणाऽवधारितं मद्वचनम्, प्रसत्त्या गृहीतं च मद्दत्तम् । अहो ! मम भाग्यमुदितम्, अतः
॥३२५॥
Jain Education in
For Personal & Private Use Only
www.jainelibrary.org