________________
श्रीधन्य
चरित्रम्
अष्टमः पल्लवः
साधवः केषाञ्चिद् गृहेषु प्रविशन्ति, केषाञ्चिद् गृहेषु न यान्तिायेषां गृहेषु आहारं गृह्णन्ति तेः तुमनसि हर्षं दधाना निधिलाभादधिकं प्रमोदं प्राप्नुवन्ति, येषां गृहेषु न गृह्णन्ति ते तु अतिखेदं कुर्वाणा आत्मानं जुगुप्सन्ति-'हा! वयं निर्भाग्यशेखरा यद् अस्माकं गृहेषु | मुनयो नागताः, आगतैरपि वा अस्माभिर्दीयमानं न गृहीतम्' एवं पुनः पुनः पश्चात्तापं कुर्वन्ति । तत्सर्वं दुर्गतपताकः पश्यति विचारयति च-"अहो ! एते महापुरुषाः परमनिःस्पृहाः, यत ईदृशैर्महेभ्यः सबहुमानं दीयमानमपि अति म हामूल्यं मोदकादि न गृह्णन्ति, कस्यचित्तु रुक्ष नीरसं च गृह्णन्ति।धन्योऽमीषामर वतारः,धन्याश्चैतेदानरसिका ये भक्ष्येण ईदृशान् पात्रमुनीन् पोषयन्ति, मया तु पूर्वजन्मनि न किमपि दत्तं तेन उदरभरणमपि दुष्करम् । महान् पापात्माऽहम् । ईदृशोऽवसरो मम कुतो मिलिष्यति यदहं दानं ददामि ? । साधुदानयोग्य आहारो मम कुतः ? | मम गृहे साधुश्च कुतः ?। मम नदी-नौकयोः संयोगः कुतः?। 'चेद् आहारादिसामग्रीसंयोगस्तदाऽपि साधुर्न गृह्णीयात् तदा मम मनोरथोऽन्तर्गडुः । केनापि भाग्योदयेन दानयोगः सफलो भवेच्चेत् तदाऽहं राज्यप्राप्तिमिव मन्ये। परम् ईदृशं भाग्यं मम कुतः?।अयोग्योऽयं मनोरथः पुण्यहीनत्वात्। एवमन्तराऽन्तरा यदा महेभ्यानां गृहेषु साधून पश्यति तदा ईदृशान् मनोरथान् करोति, आत्मानं च निन्दति । एवं परिभावयतः कियति काले गते बहूनां गृहेषु विवाहादिविवेधोत्सवाः समागताः । एकस्मिन् दिने दुर्गतपताक एकस्य परिचितगृहस्य पुरतो निर्गतः । तदा तेन गृहस्वामिना दृष्ट्वाऽऽहूय चोक्तम्-'भो दुर्गतपताक ! त्वां भोजनाय निमन्त्रयामि, परं त्वत्स्वामी मद्गृहे तव भोजनं न मन्यते । 'यदि अद्य सेवकस्य भोजनार्थमाज्ञां ददामि तदा मद्गृहेऽप्यवसरे आगतेऽस्य सेवकस्य भोजनार्थं निमन्त्रणकरणमापतति' एतदाशयेन तव श्रेष्ठी मद्गृहे भोजनाय न प्रेषयति। त्वया सार्धं तुममप्रीतिर्वर्तते, अत इमां भव्यसुखाशिकां गृहाण, चित्तप्रसत्त्या चाऽऽस्वादय"।
१. चेत्संयोगे साधुः गृणाति न का तदा मम प्र.। २. सुखासिकां प्र.।
॥३२४॥
Jan Education international
For Personal & Private Use Only