________________
श्रीधन्यचरित्रम्
अष्टमः
पल्लवः
॥३२३॥
| गृहाद् गृहं परिभ्रमतः परिजना-ऽनेकवस्त्रा-ऽऽभूषणमन्दिरश्रेणि-शयनस्थानादीनि पश्यत एवं संजातम्-'एतत्तु मया कदापि दृष्टमनुभूतं च' । एवमूहापोहं कुर्वतस्तदा ज्ञानावरणीयकर्मक्षयोपशमेनजातिस्मरणं समुत्पन्नम्, तेन पूर्वभवानुभूतं सर्वं प्रत्यक्षतया ज्ञातम्। ततः पूर्वपुण्यविलसितं संस्मृत्य स्वमत्या एकं दोधकं कृत्वा उत्साहेनैवं भणति । यथा---
"दाण जो दिन्नं मुनिवरह चडिआ तं पत्तई तो मि।रंकस्स वि सह संपडिय जंधण तेरहकोर्डि'
एवं यत्र तत्र प्रतिदिनम् उर्वीकृतभुजः प्रलपति। एवं भ्राम्यन् पाश्ववर्तिभोगदेवसार्थेशगृहे गतः । तत्रापि उदात्तस्वरेण स दोधकं वदन् नृत्यति । एवं श्रुत्वा दृष्ट्वा च भणितं भोगदेवेन-“भो धनदत्त भ्रातः ! त्वं किं जल्पसि ?, कोऽस्य जल्पितस्य भावार्थः ? यद् भवति तद् यथार्थं वद' । धनदत्तेन भणितम्-"तात जीवस्य भावार्थं कथयामि तच्छुयताम् ---
"अत्रैव पुरे दुर्गतपताकनामा मम तातगृहे मम जीवः कर्मकर आसीत्। स समस्तगृहकार्याणि अहर्निशं करोति। तस्य प्रियाऽपि अस्यैव गृहे खण्डन--पेषणादिकमकरोत् एवं महाप्रयासेन आजीविकापूर्तिं कुरुतः। अथ स दुर्गतपताकोऽन्यमहेभ्यानां गृहेषु कस्मैचित् कार्याय गच्छति तदा तत्र भिक्षार्थमागतान् साधून् पश्यति । ते महेभ्याः प्रतिदिनं महत्या भक्त्या अशनादिचतुष्कदानाय साधून निमन्त्रयन्ति । अत्याग्रहं पुनः पुनः कुर्वन्ति, अनेकवस्त्र-पात्रौ-षधादिग्रहणाय विविधभक्तिवचनैर्विज्ञप्तिं च कुर्वन्ति, परं साधवो निर्दोष योग्यं च जानन्ति तद् गृह्णन्ति नाऽन्यत्। किञ्चद् योग्यमपि निर्लोभतया न गृह्णन्ति गोचर्यां भ्रमणं कुर्वन्ता, प्रतिगृहं भिक्षार्थं विज्ञप्तिं कुर्वन्ति मार्गम् अन्तरयित्वा चाहाराद्यर्थ निमन्त्रयन्ति, परं निःस्पृहाः
१. मम प्र.। २. करोमि प्र.।
Bain Education in
For Personal & Private Use Only
Jww.jainelibrary.org