SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ श्रीधन्यचरित्रम् अष्टमः पल्लवः ॥३२१॥ | गृहवर्तिमनुष्याणाम् अपुत्रकाणां पुत्रप्राप्तिहेतोरुत्साहः संजातः । श्रेष्ठी तु चतुष्पथे गतोऽस्ति । तत्रैकया चेट्या महालाभाशया धावन्त्या चतुष्पथे गत्वा हट्टस्थितस्य श्रेष्ठिनः सहर्ष वर्धापनिका दत्ता । अथ तेन कृपणगुरुणा तच्छुत्वा भव्यं जातम्' इत्युक्त्वा विसर्जिता। केऽपि महेभ्यास्तच्छुत्वा चमत्कृतचित्ता मुखेऽङ्कलिं क्षिप्त्वा परस्परमुपकर्णं वक्तुं लग्नाः-“अहो ! अस्य कृपणत्वं धृष्टत्वं निर्लज्जत्वं च त्रयोदशद्रव्यकोटिस्वामिनः ईदृश कृपणत्वम् ? । यतो वृद्धावस्थायां कुलसन्ततिरक्षको महत्याशया पुत्रो जातः, परं न काऽपि वर्धापनिका दत्ता ? । कीदृशोऽयं निर्लज्जः?, कीदृशमस्य वजकर्कशं हृदयम्?"| तत्रैकेन मुखरेणोक्तम्'श्रेष्ठिन् ! पुत्रवर्धापनिकायां किं दत्तम् !' । श्रेष्ठिनोक्तम्-"किं दीयते?' किं जातम् ?। मानुषी मनुष्यं प्रसूते तत्र किमाश्चर्यम् ?। कोऽपि लाभः संजातः ?, प्रत्युत सूतिकासमयप्रतिपालनाय अनेकक्रयाणकानां घृत-गुडादीनां च बहुव्ययो भविष्यति । ततः पुत्रपालने महान् व्ययो भविष्यति। पुत्रेण मम वित्तव्ययस्य द्वारमुद्घाटितम् !"| तच्छुत्वा सर्वेऽपि चतुष्पथस्थिता हसितुं लग्नाः। दास्या तु विलक्षवदनया गताशया गृहमागत्य तद्व्यतिकरो धनसुन्दर्यग्रे निवेदितः । सन्ध्यायां गृहमागतः श्रेष्ठी तदा गृहमानुषैः सर्वैरपि सार्थवाहं प्रत्युक्तम्-"स्वामिन् ! भवता किं कृतम्?, भवतोऽपुत्रस्य पुत्रो जातः, वर्धापनिका न काऽपि दत्ता?, चतुष्पथे स्थित्वा किञ्चल्लज्जाऽपि नागता?" । इति श्रुत्वा पुनस्तत्रापि पूर्ववद् उत्तरं दत्त्वा बहिर्निर्गतः, कपर्दिकामात्रोऽपि व्ययो न कृतः । ___ अन्दा शुचिकर्मणि निवृत्ते धनसुन्दर्या कुलवृद्धया च परस्परं मन्त्रणं कृतम्-'श्रेष्ठी तु ईदृशेऽप्यवसरे किञ्चदपि व्ययं न करोति, शिलाकर्कशं हृदयं कृत्वा स्थितो निर्लज्जः । अस्माभिस्तु गोत्रजुहा रणादि ज्ञातिगोत्रीयाणां च भोजनकारापणं विना कथं मुखं दर्शयितुं शक्यते ? | गतोऽवसरः पुन याति" । इति विचिन्त्य धनसुन्दर्या भणितं सार्थवाहस्य-"प्रियतम ! | अपुत्रकाणामस्माकं महाभाग्योदयेन पुत्र आगतः, परं भवास्तुदान-भोगभीरुकः प्राप्तेऽप्यवसरे किञ्चिदपिन करोति। ईदृशं कृपणत्वं Jain Education india For Personal & Private Use Only w.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy