________________
श्रीधन्यचरित्रम्
अष्टमः
॥३२०॥
विशालपुरे गतः । तत्र पुरे प्रवेशं कुर्वता भोगदेवेन भवितव्यतायोगेन दुर्गतपताकगृहिणी नाम्ना दुर्गिला कस्मैचित् कार्याय मार्गे|गच्छन्ती दृष्टा। ताम् आमन्त्र्य भोगदेवेन पृष्टम्-'भद्रे! त्वं सञ्चयशीलसार्थवाहस्य गृहं जानासि?' |तयोक्तम्-'आगच्छतु मत्पृष्ठे, | दर्शयामि तस्य गृहम्' । क्रमेण तया सञ्चयशीलसार्थवाहस्य गृहं दर्शितम् । तत्र गृहद्वारवेदिकायां सञ्चयशीलसार्थवाहस्य प्रिया |
पल्लवः | धनसुन्दरी स्थिताऽस्ति। तां दृष्ट्वा भोगदेवेनोक्तम्-'सुभगे ! इदं सञ्चयशीलसार्थवाहगृहम् ?'।तयोक्तम्-'इदमेव' । भोगदेवेनोक्तम्- |* 'श्रेष्ठयस्तिगृहमध्ये?' |तयोक्तम्--चतुष्पथे गतोऽस्ति'।पुनर्भोगदेवेनोक्तम्-'भाग्यवति! भवतां गृहे दुर्गतपताकाभिधानः कोऽपि कर्मकरोऽस्ति ? | तया भणितम्-स्तोकदिनेभ्यः प्राग् आसीत् । भोगदेवेनोक्तम्-'अधुना कुत्र गतः ?' |तयोक्तम्-"साम्प्रतं तु तस्य मृतस्य नव मासाः संजाताः । नवमो मासो गच्छति मृतस्य । भवादृशानां महेभ्यानां तेन सह किं प्रयोजनम् ?'| भोगदेवेनोक्तम्-'केवलिकथितवृत्तान्तः' । अत्रान्तरे सञ्चयशीलसार्थवाहोऽप्यागतः । परस्परं शिष्टाचार पूर्वकं जोत्कारः कृतः, मिलितौ च । पश्चात् सुखक्षेमवार्ता पृष्टा । भोगदेवेन चिन्तितं मनसि-"केवलीवचनं नाऽन्यथा भवति, अतोऽत्र निवसत एव सन्देहो नक्ष्यति; यतोऽमूढलक्ष्यं केवलीवचनं सत्यं गुणकृच्च भवति, अतोऽत्र निवसनं युक्तम्" । इति संप्रधार्य सञ्चयशीलं प्रत्युक्तम्-'श्रेष्ठिन् ! अस्माकमेकं सुन्दरगृहं भाटकेन भवान् ददातु' । सञ्चयशीलेनापि स्वगृहपार्श्ववर्ति स्वकीयमेव महद्गृहं दर्शितम् । भाटकं कृत्वा तत्र स्थितो भोगदेवः ।
अन्यदा सञ्चयशीलस्य पत्नी अन्तर्वत्नी धनसुन्दरी नवमासादिगर्भस्थितौ पूर्णतां प्राप्तायां प्रसूता पुत्रो जातः । सर्वेषां १. कार्यार्थम् प्र.। २. तनो भोग देवो दुगीर्लमग्रतः कृत्वा गतः इत्यधिक कठ-प्रत्यंजरे। ३. श्रेष्ठिनी धर्मकथां चतुर्धा आक्षेपणीं विक्षेपणी, I..|॥ ३२०॥ संवेदनी, निर्वेदनी (कुर्वाणा) तत्र इत्यधिकः पाठः प्र.। ४. धनसुन्दर्या मणितम् । इत्यधिकः पाठः प्र.।
in Education
a
l
For Personal & Private Use Only
www.jainelibrary.org