________________
श्रीधन्यचरित्रम्
अष्टमः
पल्लवः
॥३१९॥
दानं देहि, मा विलम्ब कृपणतां च करु । तथा यथेप्सितानि वस्त्राणि आभरणानि च कारय, मदीया शङ्का न कर्तव्या, ऐहिकभोगे | | विलासे च कृपणत्वं न कार्यम्। किं बहुना ?; यावत् पुण्यं तावल्लक्ष्मी;, पूर्णे पुण्ये शतयत्नैरपि न स्थास्यति, अतः पुण्यं कुरुष्व। उभयलोकसाधनेन लक्ष्मीः सफला भवतीति निःशङ्कतया ज्ञातव्यम् अतः प्रिये ! दान-भोगादिना साम्प्रतं श्रीफलं लाहि. पश्चात् परलोकहिताय चारित्रं ग्रहीष्यावः । यतो हे प्रिये ! करिकर्णवत् चपला लक्ष्मीः, तस्या विश्वासो नकर्तव्यः । यद्दत्तं यद्भुक्तं यच्च परोपकारकार्ये आगतं तत् स्वकीयं ज्ञेयम्, अन्यत् सर्वं परकीयं पापहेतुः, यतो भवान्तरेऽपितज्जन्यस्प पापस्याऽविरतप्रत्ययिकः पापविभाग आगच्छति । तस्माद् अस्खलितं दानं दीयता, स्वेच्छानुरुपौ भोगश्च कर्तव्यः' । एवं स्वयं दानरसिका भोगवती भाऽधिकतरं दानायोत्साहिता ततः प्रभृति विशेषतः सुपात्रदानादि सोत्साहं दातुं लग्ना । यः कोऽपि यद् यद् मार्गयति तत् तत् तस्य ददात्येक् कस्यापि नकारं न करोति। एवं कियानपि कालो गतः ।
अन्यदा तत्र पुरोद्याने लोकालोकपदार्थप्रकाशनप्रभाकरं श्रीकेवलीभन् समवसृतः । तस्य वन्दनार्थं महती पर्षद् निर्गता। भोगदेवोऽपि तच्छुत्वा सहर्ष भोगवत्या समं वन्दनायागतः । केवलिनि दृष्ठे पञ्चाभिगमपूर्वकं वन्दनां कृत्वा स्तुत्वा च यथोचितस्थाने स्थितः। ततो भगवता संसारनिर्वेदनीधर्मकथा 'दत्ता। ततोऽवसरं प्राप्य भोगदेवेन विज्ञप्तिः कृता-'भगवन् ! दानस्य किं फलम् ?' केवलिना भणितम्-'भो देवानुप्रिय ! अस्मिन्नर्थे विशालपुरे सञ्चयशीलसार्थवाहस्य दुर्ग त पताकाऽभिधानः । कर्मकरः प्रष्टव्यः' । भोगदेवेन 'तहत्ति' इत्युक्तम् । अवसरे देशनायामुपरतायां यथाऽऽगतास्तथा गता लोकाः । कतिपयदिनानि तत्र स्थित्वाऽन्यत्र क्षेत्रे विहर्तुं गतः केवली। ततो भोगदेवः केवलिवचनसत्यापनार्थं भोगवतीं सह कृत्वा रथादिवाहनारूढो बहुभिः सेवकैः परिवृतो १. यथा संसारे अनादिप्रियं इन्द्रिय सुख मिष्ठं लगनि इतिप्रत्यः । २. कृतं प्र.
JainEducation
For Personal & Private Use Only