SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ श्रीधन्यचरित्रम् अष्टमः पल्लवः ॥३१८॥ Lपुत्र पुत्री वा सेवको वा तिर्यग् वा आगच्छति तदागमनमात्रेण यत्नेन रक्षिताऽपि लक्ष्मीनश्यति। यतः पुण्य-पापोदयेन अचिन्तिता लक्ष्मीरागच्छति गच्छति च । यतः-- पुण्योदयाद् भवेल्लक्ष्मी लिकेरफलेऽम्बुवत् । अज्ञाता हि पुरनर्याति गजभुक्तकपित्थवत्" ||१|| अतोऽनीप्सितमपि मम गमनं भविष्यति, तेन मम मुखे ववयं जातम्" । श्रीदेवेन पृष्टम्-'भगवति ! कुत्र गमिष्यसि ?, लक्ष्म्योक्तम्-"अत्रैव नगरे पूर्वजन्मनि दत्तमुनिदानः पूर्वकृतकर्मणाम् अप्राप्तोदयकालत्वाद्वर्जितविशालभोगो भोगदेवः सार्थवाहः परिसति। अधुना तस्य प्राप्तपुण्योदय ! कालत्वात्। भोगदेव इतिनाम्नः साध्यर्थ करणार्थ तस्य गृहे गमनं भविष्यति'। इत्युक्त्वा तिरोभूय लक्ष्मीस्तस्य गृहं गता। अथ भोगदेवसार्थपतिगृहे गमनाद् लक्ष्मीस्तस्य गृहे कतिपयदिनाभ्यन्तरे धन-धान्य-सुवर्णरत्न-मणि-माणिक्यादिसमृद्धिं विस्तारयितुं लग्ना। यत्र यत्र स वाणिज्यं करोति तत्र तत्र ईप्सिताद् अधिकतरं प्राप्नोति । सर्वत ऋद्ध्या संकीर्णं गृहं जातम्। नगरमध्ये महाजनवृन्देषु महत्त्वं जातम्। राजद्वारे च राज्ञा सन्मानं दत्तम्। गृहाङ्गणम् अश्व-सुखासनदास-दासी-मन्त्रिभिर्व्याप्तत्वाद् दुष्प्रवेशं, यशःप्रतिष्ठाभिर्धवलितं समस्तपुरं च । भोगदेवस्तु लक्ष्मीं लब्ध्वा मार्गणादधिकं ददाति, उपकारं च करोति; तेन जगद्विख्यातयशा जातः । स्वयं च वस्त्राभरणैर्देव इव कृतस्फारश्रृङ्गारोऽश्वसुखासनादिवाहनारूढोऽनेकशतभटैः परिकीर्णश्चतुष्पथमार्गे गच्छति, तत्र सर्वे महेभ्या उत्थाय न्यग्भूय प्रणामं कुर्वन्ति, गते च गुणवर्णनं कुर्वन्ति, यथा-"परदुःखभञ्जनशीलस्यास्य सफलं जीवितम्, अनेन प्राप्ता ऋद्धिर्वरतरा, यतः प्रतिदिनं परोपकारप्रवणोऽस्ति । अस्य नामग्रहणेऽपि भव्यं भवति । नगरमण्डनोऽस्ति" | इत्यादि गुणवर्णनं कुर्वन्ति जनाः । एवं | त्रिवर्गसाधनपरः सुखेन कालं गमयति । तस्य कलत्र भोगवती नाम्ना । अन्यदा तस्या अभ्यणे गत्वैवं वक्तुं लग्न:-"प्रिये ! यथेष्टं |३१८॥ in Education remational For Personal & Private Use Only www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy