________________
श्रीधन्य
चरित्रम्
॥३१७॥
Jain Education Int
धूप-दीप-पूष्पादिना पूजनं करोति । प्रतिक्षणं लक्ष्मीमन्त्र -ध्यानादिकं स्मरन् कालमतिक्रामति । अन्यदा लक्ष्मीप्रतिमाया हस्यमानं मुखं दृष्ट्वा पृष्टं श्री देवेन-भगवत्याः परिहासकरणे किं प्रयोजनम् लक्ष्म्या भणितम् - तव चरित्रं श्री देवेन भणितम् । कीदृश ? मम अनुचितं चरित्रं । यत्तव परिहास कारणं जातम् ?' | लक्ष्म्योक्तम्- “श्रृणु, यत्त्वं परमपदसाधकान् परमकरुणामृतरसभृतकुम्भकल्पान् सकलचराचरजीवहितवत्सलान् सकल- सुर-नरपतिनतचरणान् समस्तवाञ्छितसुखदायकान् जगत्त्रयोत्तमान् श्रीजिनेन्द्रान् विहाय इहलोकप्रतिबद्धोऽत्युपचारेण मम पूजनं करोषि । अहं पुनः पूर्वजन्मान्तरोपार्जितपुण्यवशेन स्थिरीभावेन स्थातुं शक्नोमि - प्रबलपुण्योदयं यावत् स्थिरत्वं भवति, मम प्रसत्त्या स्थातुं न शक्नोमि । ततो यस्य सेवनात् कार्यं न भवति तस्य सेवनं व्यर्थम् । पुण्याधीना लक्ष्मीरिति जगत्प्रसिद्धिः । पुण्यं च शुद्धदेव-गुरु-धर्म-दान- शील- तपस्यादिना भवति, न तु मादृशानां सेवनेन । | अतस्तव व्यर्थसेवनं परिहासकारणम् । श्रीदेवेन भणितम् -'भगवति ! तव पूजापरायणस्य मम यद् भावि तद् भवतु, परं तव पूजां प्राणान्तेऽपि न मुञ्चामि । एवं निश्चलचित्तेन लक्ष्मीपूजने कुर्वतो व्रजन्ति वासराः ।
अन्यदा लक्ष्मीपूजनावसरे लक्ष्म्याः श्याममुखं दृष्ट्वा श्रीदेवेन पृष्टम् -'भगवति ! केन कारणेन मया त्वं विवर्णवदना कक्ष्यसे ? श्रिया भणितम् -'यस्तवाऽधुना दारको जातः स विलक्षणः पुण्यरहितः पापबहुलोऽस्ति, अतोऽहं तव गृहमुज्झितुकामाऽस्मि । | अतिभक्तिमतस्तवोपरि अनुरक्ताया अपि मम गमनमवश्यं भविष्यति, अतस्तव वियोगदुःखेनैवंविधाऽस्मि; यतः पुण्यैर्विना मम स्थिरत्वं न भवति । शास्त्रेऽप्युक्तम्-यः कोऽपि सल्लक्षणः पुत्रो दासो वा पशुर्वा पुत्रवधूर्वा आगच्छति तदागमनमात्रेण सर्वतोऽनाहूता लक्ष्मीः सङ्केतितमनुज इव समभ्येति, स्तोकनैव च कालेन गृहं स्मृद्धया सङ्कीर्णं भवति । यदा पुनः कोऽपि निर्लक्षणः पूर्वकृतपापभरः
For Personal & Private Use Only
अष्टमः
पल्लवः
॥॥३१७॥
www.jainelibrary.org