________________
श्रीधन्य
चरित्रम्
॥ ३१६॥
Jain Education In
दत्ता, तथापि तव मूढस्य दारिद्र्यं न गतम् पुनरागतः । अतः परं मम पार्श्वे नान्यद् मन्त्रादिकमस्ति एतावन्मात्रैव मम पार्श्वे | विद्याऽस्ति सा च सर्वाऽपि तुभ्यं दत्ता, अधुना मम पार्श्वे नागन्तव्यम्, गच्छ यथेच्छम्" । इत्युक्त्वा विसर्जितः सुचिवोदो विच्छायवदनो गतः स्वगृहम् । दिनम् आर्त्याऽतिवाह्य रात्रौ प्रसुप्तो यावद् निद्राभिमुखो जायते तावता एका मध्यवयाः श्वेतवसना वरतरुणी गृहमध्ये सम्मुखमागच्छन्ती दृष्टा । ततस्तेन ससम्भ्रममुत्थाय तस्याश्चरणौ नत्वा पृष्टम् -'भगवति ! का भवती ?, किमर्थमागता?' । तया भणितम् - "या त्वया वामपादेन - 'अशुचिरियम्' अति जुगुप्सां कृत्वा दूरोच्छालिता साऽहं तव गृहलक्ष्मीः " तेन मणितम् - अधुना क्ववससि । तेयामणितम् यस्यस्पर्शेनाहं अशुचिरियम् इति जुगुप्सां कृत्वा त्वया दूरप्रक्षिप्तातस्थमातंगस्य गृहेनिवसामि । तेन भणितम् -'को मातङ्गः ?' । देव्योक्तम्- - "यस्य सेवां कुर्वता त्वया बहुतरा दिना अतिक्रान्ताः यस्य मार्गानुलग्नेनोपानहादि परिवहता त्वयाऽऽत्मा परिक्लेशितः, तस्य पार्श्वे वसामि । तेनोक्तम्- 'किमर्थमागताऽत्र ?'। तया भणितम्' तव शौचधर्मदर्शनार्थं यत् कीदृगू असौ शौचं रक्षति' । इत्युक्त्वाऽदर्शनं गता लक्ष्मीः । सुचिवोदस्तु लज्जाऽवनतकन्धरोऽतिक्लेशेन प्राणवृत्तिं कुर्वाणः सकलजनहसनीयो जातः । यत्र यत्र गच्छति तत्र तत्राऽस्य मूर्खत्वं कामकुम्भभग्नत्वस्वरुपं चोक्त्वा परिहास्यं कुर्वन्ति जनाः । अयं च श्रुत्वा हृदये ज्वलति परं निर्धनत्वाद् दुःखेन कालनिर्गमनं करोति । तस्याद् हे केरलकुमार ! इदंपर्यवसाना लक्ष्मीरतिशौचकरणेनापि स्थिरा न भवति । अथ सेवया पूजयाऽपि च लक्ष्मीः स्थिरा न जाता तच्छृणु --
अथ यो द्वितीयः सुचिवोदवयस्यः श्रीदेवनामा, तेन बहुभिः प्रकारैरन्यदेवी- देवानां सेवां मुक्त्वा एकस्या लक्ष्मीदेवतायाः प्रतिमा कारिता गृहमध्ये शुचिभव्यस्थाने देवीगृहं कारयित्वा मन्त्राह्वान - पूजन-संस्कारादिविधिना प्रतिष्ठापिता च । नित्यं त्रिकालं
For Personal & Private Use Only
अष्टमः पल्लवः
॥ ३१६ ॥
* Www.jainelibrary.org