SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् ॥ ३१५ ॥ कतिपयदिवसैर्गृहं प्राप्तः । तत्र चतुरस्रं गोमयमण्डलं कृत्वा धूप-दीप- पुष्पा -ऽक्षत - चन्दनादिभिर्घटं पूजयित्वा घटः प्रार्थितः । अथ यत्प्रार्थितं तत्सर्वं घटेन दत्तम् । प्रसन्नीभूतः सुचिवोदश्चिन्तयितुं लग्नः - 'स्वजनादीन् आमन्त्र्य भोजयामि यथाऽखिले पुरे विख्यातो भवामि पश्चाद् गृह-भूषणादीनि प्रार्थयिष्यामि । इति विचिन्त्य भोजनसामग्री प्रार्थिता । दैवानुभावेन सर्वा सामग्री प्रकटीभूता । ततः स्वजनादीन् आमन्त्र्य भोजनं कारयितुं लग्नः । ते सर्वेनुपमां दिव्यां रसवतीं भुञ्जाना प्रशंसा कर्तुं लग्नाः । ततः कियद्भिः स्वजनसम्बन्धिबन्धुवर्गैर्बहुमानपूर्वकं पृष्टः - 'भो भाग्यनिधे सुचिवोद! इमाम् अभुक्तपूर्वां दिव्यां रसवतीं कुतो भोजयसि ? | ईदृशी तु केनापि पूर्वं न भोजिता, नापि अग्रे भोजयिष्यते । मर्त्यलोके देवलोकसुखास्वादस्त्वया भोजितः । धन्यस्त्वं सर्वेषु जनेष्वग्रणीर्दृष्टः, नान्यः कोऽपि भवादृशो दृष्टः । परं कथय, ईदृशी तव शक्तिः कुतः ? कस्य महिमा?" । ततः सुचिवोदस्तेषां वचनैर्दर्पितो मानाऽऽवेशेन मदमत्तो गृहान्तर्गत्वा तं घटं स्कन्धे कृत्वा स्वजनानां मध्यगतो हर्षेण विककलचैतन्यो नृत्यन् मुखे | जल्पितुं लग्नः - "अहो ! ममाऽस्य घटस्य प्रभावेण प्रनष्टं दारिद्यम् । भोजनं तु कियन्मात्रम् ? ईदृशानि भोजनानि तु अस्य घटस्य प्रभावेण प्रतिमासं भोजयिष्यामि ! । अधुना को मम तुलनां करिष्यति ? अस्ति कोऽपि चेत् प्रकटीभवतु, पश्यामि तस्य सामर्थ्यम्" । एवं गर्वपूरितहृदयस्य औत्सुक्याद् व्याकुलचित्ततया सहर्ष नृत्यतस्तस्य स्कन्धात् पतितो घटः, भग्नः, शतशः खण्डानि जातानि । ततो भग्नाशो विलक्षवदनः शोचयति । लोकाः पुनस्तस्य मुखं दृष्ट्वा प्रतिगृहं प्रतिजनं हास्यं कुर्वन्ति । मूर्खकथायां प्रवर्तमानायाम् | अस्यैव दृष्टान्तो दीयते । तद् दृष्ट्वा हृदये ज्वलन् पुनरपि ग्रामान्निर्गतः, मातङ्गं च गवेषयितुं लग्नः । बहुभिर्दिनैर्मातङ्गो मिलितः । | तस्य कथितः सर्वो व्यतिकरः । मातङ्गोऽपि तच्छ्रुत्वा ईषद्विहस्य भाले हस्तं दत्त्वा प्राह - " धिक् तव मूर्खत्वम् ! सर्वसमीहितदातृवस्तु न त्वादृशं मूर्ख विना जनमध्ये कोऽपि प्रकटीकरोति । भो जडधीः ! वास्त्रयं तव मनोरथसाधिका स्वभावसिद्धा विद्या शिक्षा च Jain Education International For Personal & Private Use Only अष्टमः पल्लवः || ३१५॥ www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy