SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ श्रीधन्यचरित्रम् अष्टमः पल्लवः ॥३१४॥ | इत्यतिहर्षपूरितमानसतया मार्गेऽनेकशतमनोरथकरणौत्सुक्येन च व्यग्रचित्ततया मन्त्रपदं विस्मृतम् । बहुना प्रकारेणोहापोहः | कृतस्तथापि आवरणदोषात् स्मृतिपथे नागतं मन्त्रपदम् । ततः फालभ्रष्टमर्कटवद् विलक्षो जातः । पुनरपि ग्राम- नगरो-पवनेषु | मातङ्गं गवेषयता बहुभिर्दिनैर्लब्धा शुद्धिर्यद् अमुकस्थानेऽस्ति मातङ्गः । ततस्तस्य मातङ्गस्य समीपे गतः । यथावस्थितं दृष्ट्वा * अष्टमः पृष्टं मातङ्गेनागमनप्रयोजनम् । तेनापि कथितो मन्त्रपदविस्मरणव्यतिकरः । तं च श्रुत्वा उत्पन्नकरुणः प्राह--" भो भद्र ! त्वं विस्मरणशीलोऽसि, विद्या तु एकस्यैकवारं देया, न द्वितीयवारमिति गुर्वाज्ञा । चेद्दीयते तदा आवर्योर्द्वयोरपिनिष्फला भवति । तेनेमां विद्यां तु अधुना दातुं न शक्नोमि, त्वदुःखमपि द्रष्टुं न शक्नोमि, तेन गृहाणेमं विद्याऽभिमन्त्रितं पटम्, स्वतः सिद्ध एष पटः, धूप--दीपादिभिः पूजयित्वा यत् प्राथर्यते तद्ददाति, ईप्सितं च पूरयति; अत एनं गृहीत्वा व्रज स्वगृहं, सुखी भव' । इत्युक्त्वा दत्तो मातङ्गेन पटः । तेनापि स प्रणामपूर्वकं गृहीतः । ततो मातङ्गाज्ञया चलितो निजदेशाभिमुखम् । मार्गे स्वतः सिद्ध पटं प्राप्य मनसि विचारयितुंलग्न:-"अधुना वसमीहितदायकः पटो दत्तः। किञ्चित्पूजनमात्रं कृत्वा ईप्सितं लप्स्ये, सर्वे मनोरथा मम फलवन्तो भविष्यन्ति । दुर्जनानां मुखानि मलिनीकरिष्यामि । नगरे पुनर्मे महत्वं भविष्यति । ततो यैः खलैर्ममापद्दशायां: दुर्वचनान्युक्तानि तेषां शिक्षां दास्यामि। अतः शीघ्रं गच्छामि गृहे, चिन्तितं च फलवत् करोमि' । एवं मनोरथान् कुर्वन् औत्सुक्यात् क्षुद्रसार्थेन सह चलितः । अथ निजग्रामाद् दिनद्वयान्तरितपथं यावद् गतस्तावद् मिलितास्तस्कराः, तैः सार्थो लुण्टितः, तस्य पटोऽपि तस्करैर्गृहीतः । पुनर्विलक्षः सन् पश्चाद् बलितः। तं मातङ्गं गवेषयन् कतिपयदिवसैः पुनर्मिलितः।मातङ्गपादयोर्लग्नः । पृष्टं तेन-'पुनः कथमागतः ?' | ततस्तेन कथितः पटव्यतिकरः ।तस्य दैन्यं दृष्ट्वा मातङ्गस्य करुणा प्रादुर्भूता । ततस्तेन दत्तो विद्याभिमन्त्रितो घटः कामघटसंज्ञितः, कथितश्च तस्य पूजनविधिः अथ सुचवोदो मातङ्गं नत्वा सहर्षं चलितो निजदेशाभिमुखम्। ॥३१४॥ Jain Education Interational For Personal & Private Use Only www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy