________________
श्रीधन्य
चरित्रम्
॥ ३१२ ।।
| ततः सुररमणीवृन्देन मातङ्गस्य सुगन्धितै- दिनाऽभ्यङ्गयित्वा वरसुगन्ध्युद्वर्तनेन उद्वर्तयित्वा पुष्पादिवासितोष्णजलेन स्नानं कारयित्वा सुकुमारसुगन्धिकाषायिकवस्त्रेणाऽङङ्गं लुञ्छयित्वा, शुद्धचीनांशुकैः परिधाप्य, विविधैराभूषणैर्भूषयित्वा प्रव संस्थाप्य, सुवर्ण-रत्नभाजने विविधरसनिष्पत्तिकां देवनिर्मितां रसवतीं भोजयित्वा, आचमनादिना मुख - हस्तादिशुचिं कारयित्वा, रत्नखचितसुवर्णपल्यङ्के -
सुकुमारतूलिकास्तीर्णे देवशयने स्थापयित्वा, अतिसुगन्धिद्रव्यमिश्रितप्रवरताम्बूलं दत्त्वा मातङ्गः प्रसन्नीकृतः । एवं सुररमणीभिर्गीतनृत्याद्यनेकविलासान् विलसन् मातङ्गोऽद्भुतसुखनिमग्नस्तिष्ठति । यावदेकघटिका रात्रिर्गता तावत् सम्पन्नकार्येण सर्वं विसर्जितम् । पुनस्तथैव देवकुले स्थितः । एतत्सर्वं सुचिवोदेन दृष्टम् । दृष्ट्वा च चिन्तयितुं लग्नः - "अहो ! एष मातङ्गो विद्यारत्नमहोदधिरचिन्त्यशक्तिकश्च । अथास्य सेवां करोमि। सेवया प्रसन्नीभूतो मम दारिद्यं मूलत उन्मूलयिष्यति” । इति विचिन्त्य सेवां कर्तुं प्रवृत्तः पृष्ठे लग्नो भ्राम्यति, निवस्तुकामस्याग्रत आसनं ददाति, तस्याग्रे सावधानमनास्तिष्ठति, मुखनिर्गतवचनमात्रेण | तत्कार्यं निपुणतया करोति; एवं यथा तस्य चित्तं प्रसन्नतां भजतेतथा करोति । उत्थातुकामस्य उपानहौ पादयोः परिधापयति, मार्गे गमनं कुर्वतः सविनयं सेवकवत् पृष्ठतः शुश्रूषमाणश्चलति, तस्य उपकरणभारं चोत्पाटयन् पदे पदे' क्षमा क्षमा' इति शब्द वदन् अनुचरति । एवं चिरकालसेवनयाऽऽवर्जितं मातङ्गस्य मानसम् । अथान्यस्मिन् दिने मातङ्गेन भणितः सुचिवोदः -" भो भद्र ! केन कारणेन ममाऽनिर्वचवनीयां सेवां करोषि ?, प्रसन्नोऽस्मि तव सेवया; अतस्व हृद्गतमाशयं वद यथाऽहं तवाशां पूरयामि" । तदा सुचिवोदः प्रणामपूर्वकं हस्तौ संयोज्य वक्तुं लग्नः - "स्वामिन् । अहं दारिद्यपीडितोऽस्मि । अतिदारिद्रयेण पराभूतो गृहात् निर्गतः । परं दारिद्यं मम पृष्ठे लग्नं, कथमपि पार्थं न मुञ्चति । उक्तं च-
Jain Education char
For Personal & Private Use Only
अष्टमः
पल्लवः
|| ३१२ ॥
www.jainelibrary.org