________________
श्रीधन्यचरित्रम्
॥ ३११ ॥
लक्ष्म्या चिन्तितम् - "एष पापोदयाद् अयोग्यो 'यो मां गृहे समागच्छन्तीं वामपादेन प्रस्खलति । अतस्त्यक्तव्यं मयाऽस्य गृहम् । तथा कर्तव्यो मया एष यथा उदरवृत्तिमपि कर्तुं न शक्नुयात् । दारिद्यपूर्णं च गृहं कर्तव्यम्" । इति विचिन्त्य मुक्तं सुचिवोदगृहं | लक्ष्म्या । सहसा अतिस्तोकदिनमध्ये गतं सर्वधनम्, न किमपि गृहं स्थितम् । यद् यद् आजीविकार्थं व्यापारादिकं करोति तत्र तत्र विपरीतं भवति । धने गते यस्य सेवादि करोति तस्य किमप्यशुद्धं भवति - अमङ्गलं भवति ततस्तं निष्काशयति । एवं स्वजनवर्गाणां शेषजनानां चाऽनिष्टतरो जातः । प्रतिदिनं निर्वाह-योग्यमन्नमपि गृहे नास्ति । क्षुत्क्षामकुक्षिः परिभ्राम्यति । लक्ष्मीवती तु अन्नमात्रदुर्लभत्वात् पितुर्गृहंगता। एषोऽपि दुःखपरम्पराऽनलदह्यमानमानसः किमपि निर्वाहं कर्तुमशक्तो ग्रामं त्यक्त्वा देशान्तरं चलितः । ग्रामाद् ग्रामं भ्राम्यति, यत्र यत्र व्यवसायादिकं कर्तुं प्रारभते तत्र तत्र विपरीतभवनात् प्रबलं महादुःखं भवति । कस्य| चित् सेवाकरणे प्रवर्तते तदा 'कथमपि चौर्यादिकलङ्कश्चटति, ततः स निष्कासयति एवं बहुसु ग्राम देशेषु बहु कालं यावद् भ्रमणं कृतम् परं सर्वत्र विफल व्यवसायत्वाद् भग्नाशः सन् पुनरपि देशसम्मुखं चलितः ।
एकदा निरशनः कष्टेन मार्गमतिवाह्य क्षुधया पीडित एकस्मिन् नगरासन्नदेवकुले क्षुधाकुलः मार्गश्रमेण ग्लानशरीरः सखेदं | यावन्निषण्णोऽस्ति तावद् एको मातङ्गस्तत्रागतः । स च मूलमण्डपे गत्वा यक्षाय प्रणामं कृत्वा मण्डपे उपविष्टः । सुचिवोदोऽपि | क्षुधातृषाखिन्नशरीर एकस्मिन् देवालयकोणे पतितः पश्यति मातङ्गचरितम् । ततो मातङ्गः प्रणामं कृत्वा आडम्बरतः पूजाविधानं कर्तुं प्रवृत्तः मण्डलं चालिख्य यक्षिण्याः पूजोपचारः कृतः स्मृतश्च मन्त्रजापः । क्षणान्तरे समागता यक्षिणी । भणिता मातङ्गेन‘‘भागवति ! सकलसमीहितं प्रकटी कुरु, मम कृते च विलासभवनं कुरु" । यक्षिण्या तथैव निर्वर्तिता भवन-भोजनादिसामग्री । १. यमगृहं समागच्छन्ति, वाम पादेन प्रस्खलिता इति प्र । २. कपुर्रवद्धिकः प्र. । ३. किमपि प्र.
Jain Education international
For Personal & Private Use Only
अष्टमः
पल्लवः
॥ ३११ ॥
www.jainelibrary.org